________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पम अध्यायः
निदानस्थानम् । . १२२६ सङ्ख्या तावदष्टौ ज्वराः पञ्च गुल्माः सप्त कुष्ठानीत्येवमादि।
संख्या तस्य व्याधेः सर्वश इति सत्तानुकूला सङ्ख्या व्यापारविशेषः। आगन्तुजेष्वपि सङ्ख्या सत्तानुकूला व्यापारभेद एव । दोषाणां तथैव दुष्टानां द्विशो बहूनाश्च प्राधान्यमप्राधान्यञ्च व्यापारविशेषः। प्रकारश्च व्यापारभेदः। निदानस्वभावेन यादृशस्वभावो दोषो भवति स तस्य प्रकारः। यावतांशेन यस्य दोषस्य चयप्रकोपौ तत्कल्पना च व्यापारभेदः। बलकालश्च दोषाणां व्यापारभेदः।
इत्येते दोषाणां दृष्यसंयोगे स्वस्खक्रियेव व्यापारास्तानाह–सा संख्या प्राधान्यविधिविकल्पवलकालविशभिद्यते। इति । सा सत्तानुकूला क्रिया सम्प्राप्तिः संख्यादिभिः पञ्चभि दैभिद्यते ॥५॥
गङ्गाधरः -- संख्या तावदित्यादि। संख्या तावत् द्वौ ज्वरो पुनरष्टौ ज्वराः पञ्च गुल्मा इत्येवमादयः। यद्यपि यो भावो जायते स एक एव जायते धर्माणां निदानग्रहणेनैव ग्रहणं भवतीति। यतः कारणधर्मोऽप्ययं व्याधिजनकदोषव्यापाररूपः सम्प्राप्तिशब्देन विशेषबोधनार्थ पृथक कृत्वोच्यते। यथा-लिङ्गत्वाविशेषेऽपि भाविव्याधिबोधकत्वविशेषात् पूर्वरूपं पृथगुच्यते । अत एव वागभटेऽप्येवमेव सम्प्राप्तिलक्षणमुक्तम् ;'यथा दुष्टेन दोषेण यथा चानुविसर्पता। निव॒र्तिरामयस्यासौ सम्प्राप्तिर्जातिरागतिः ॥” इति । सम्प्रति सम्प्राप्त प्रतिव्याधिव्यक्तिभिन्नायाः सर्वत्र व्याधौ तत्प्रयोजनाभावान्न भेदो वक्तव्यः, यस्तूपयुक्तो भवति सम्प्राप्तिविशेषः, तमभिधास्यत्येव, “स यदा प्रकुपितः प्रविश्यामाशयम्" इत्यादिना ग्रन्थेन ; अतः सव्वसम्प्राप्त्यनभिधानात् न्युनतादोषपरिहारार्थं सर्वव्याधिसाधारणान् सम्प्राप्तिभेदानाह–सा संख्येत्यादि। सा सम्प्राप्तिः संख्यादिभिर्भिद्यते इति संख्यादिभिन्ने व्याधौ भिन्ना भवतीत्यर्थः, यतः न भिन्नानां भावानामभिन्नोत्पत्तिर्भवति, किं तर्हि भिन्नैव भवति ; यद्यपि च प्रतिव्याधिव्यक्तापि सम्प्राप्तिर्भिन्नैव भवति, तथापि स भेदः सम्प्राप्तेरिह प्रयोजनाभावान्नोच्यते ; यतः, संख्याप्राधान्यविध्यादितुल्यासु वरव्यक्तिषु एकरूपनिदानलिङ्गचिकित्सितासु भेदप्रतिपादने न किञ्चित् प्रयोजनमस्ति ; संख्यादिभिन्ने तु ज्वरादौ निदानलिङ्गचिकित्साभेदोऽस्ति ; अतः संख्यादिभेदजनिकायाः सम्प्राप्तेर्भेदकथनमुचितमेव ॥५॥
चक्रपाणिः-संख्याभेदमुदाहरति--संख्या तावदिति । यद्यपि प्राधान्यादिभेदभिन्नेऽपि व्याधौ संख्याभेदोऽस्त्येव, तथापीह यैव शास्त्रसिद्धा अौदरीयादिप्रतिपादिता सैव संख्याशब्देन प्राप्ता ; अत एवासी ज्वरा इत्यभिधाय द्विविधं शोणितपित्तमिति क्रमात् प्राप्त रक्तपित्तं
For Private and Personal Use Only