________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
निदानस्थानम्।
१२२७ सम्प्राप्तिरागतिर्जातिरित्यनर्थान्तरं व्याधेः। सा सङ्ख्याप्राधान्यविधिविकल्पवलकालविशेषैर्भिद्यते ॥५॥ पण्डितः॥ इति । एतेन विकृता दोषा एव विकारास्तत्प्रकृतिका ज्वरादयस्तेषां प्रकृतिसमुत्थान विशेषाधिष्ठानविशेषज्ञानेनानामकव्याधीनामपि प्रकृतिविघातेन एवोपघातो भवतीति कथं निमित्तकारणं दोषः स्यात् ? एवं पूर्वरूपावस्थायां प्रयुक्तभेपजादीनां सुखकरानुवन्धः कथमसमवायिकारणदोषदृष्यसंयोगलक्षणसम्प्राप्तिनाशाद्भवति ? नास्ति हि पूर्वरूपे सम्माप्तिः। उक्तं हि स्वयमेव । भविष्यन्त्या असम्प्राप्तिरतीताया अनागमः। साम्प्रतिक्या अपि स्थान नास्त्यत्तेः संशयो ह्यतः । इति । विषमा धातवो दोषा दृष्याश्च व्याधय एव न तु हेतव उक्ताः। हेतवस्तु त्रयोऽसात्म्येन्द्रियार्थसंयोगप्रशापराधपरिणामा उक्ताः । ततो व्याधिविपरीताद्यौषधाहारविहाराणामुभयविपरीतादिभ्यो भेदः सुव्यक्त एव, न दुरुपपादः। यथा कामजे ज्वरे कामहरः क्रोधः कामज्वरहरश्चेति । अतीसारे पाठादिस्तदारम्भकदोषवैषम्यात्मकव्याधितन्निमित्तातिसारहर एव न तु गुर्वतिस्निग्धाहारादिहेतुहर इति। विपरीतार्थकारिणामिति निदानसमानधर्मिणामपि प्रभावाद् रोगोपशमकारिणामिति नार्थः । निदानसमानधम्मिणो न व्याधिविपरीतार्थकारिणः किन्तु निदानविपरीतार्थकारिण इति । तस्माद हेतुव्याधुाभयसमानधर्माणोऽपि प्रभावाद हेतुव्याधुाभयविपरीतानाम् औषधादीनामर्थकारिण इत्यर्थः ।
एष उपशयः पूर्वरूपे प्रयुक्तो भविष्यप्राधि बोधयति। उत्पन्ने व्याधौ प्रयुक्तो वर्तमानं व्याधि बोधयति । जायमानन्तु व्याधि किं बोधयति न वाऽथ चेद्बोधयति कदा प्रयुक्तो बोधयतीत्यतः सम्प्राप्तिमाह-सम्प्राप्तिरित्यादि। सम्प्राप्तिरागतिर्जातिरित्यनर्थान्तरं व्याधेः इति। सम्माप्तिरिति भावे क्तिच्। जातिरित्यपि जनेर्भावे क्तिच् । आगतिरित्यपि आगमे वे क्तिच्। य एवार्थो जनेः स एवार्थः सम्पाभ्यामापेः स एव आङपूर्वगमे रत्यनर्थान्तरमिताक्तम् । जनी प्रादुर्भावे इति सत्तानुकूलव्यापारो जनिधावर्थः । ___ यद्यपि सम्प्राप्यनन्तरं लिङ्गप्रादुर्भावः, तथापि संप्राप्तेर्निरूपणं प्रति भल्पप्रयोजनाच्छेषतः सम्प्राप्तिमाह-सम्प्राप्तिरित्यादि। जातिर्जन्म, सम्प्राप्त्यागतिजातिशब्देर्योऽर्थोऽभिधीयते व्याधेः, सा सम्प्राप्तिरित्यर्थः। अत्रैके व्याधिजन्ममात्रमन्त्यकारणव्यापारजन्यं संप्रातिमाहुः। इयञ्च सम्प्राप्तिर्यद्यपि निदानादिवदव्याधिबोधिका न भवति, तथापि
For Private and Personal Use Only