________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः निदानस्थानम् ।
१२२५ भावान्नियमेन कार्याभावः, किन्वसमवायिकारणाभावप्रयुक्तोऽपि । सम्प्राप्तिलक्षणस्य संयोगस्यासमवायिकारणस्य व्याधिहरौषधादिना नाशायाधि. नाशः स्याद, दोषस्तु स्वयं क्रियान्तरेण वा निवर्तते इति । तदिदं दूषणमयुक्तं विक्रियमाणा दोषदृष्या हि ज्वरादिरूपेण जायन्ते नातो व्याः पृथगदोषदृष्या न वा दोषदृष्येभ्यः पृथग् ज्वरादय इति । दोषदृष्यसंयोगनाशो यदि व्याधिहरौषधादिना भवति ततः किं स्वरूपो व्याधिनश्यति, किं विकृतदोषदृष्यव्यतिरिक्तोऽपरो व्याधिरस्ति; यस्य नाशो व्याधिहरौषधादिना संयोगनाशे भवति ? सन्तापलक्षणो हि ज्वरो दोषदृष्यव्यतिरिक्तः किं भवति ? दृष्येण सह दोषसंयोगस्य हेतुस्तु दोषप्रकोपविशेषस्तत्सत्त्वे तत्संयोगनाशस्यासम्भवस्तस्माद् व्याधिहरौषधादिना दोषसञ्चयप्रकोपनाशो वक्तव्यस्तत एव दोषहरखमुपपद्यते व्याधिहराणामौषधादीनामिति। यथा यथा हि दोषसञ्चयप्रकोपनाशः स्यात् तथा तथैव दृष्यसंयोगः शिथिलीभवति दोषवलहानेः। निःशेषेण दोषवलहानौ दृप्यबलहानौ च तयोः संयोगो विनश्यति शिथिलीभावेऽपि हि वत्तते। तस्मात् समवायिकारणा. भावान्नियमेन कार्याभावः स्यात् । न चासमवायिकारणं तयोः संयोगः । सोऽपि समवायिकारणं गुणवात् । अन्यथा संयोगस्य गुणवं व्याहन्यते । उक्तं हि पूर्वाध्याये-समवायी तु निश्चेष्टः कारणं गुण इति । कणादेन अप्युक्तम्-द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमन्यापेक्षा गुण इति समवायिकारणमित्यनुवयोक्तम् । तथा। द्रव्यगुणयोः सजातीयारम्भकलं साधम्म्यम् । द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरमित्युक्तम्। तत्र गुणस्य सजातीयगुणारम्भे यदि समवायिकारणवं नोच्यते, तहि यो गुणो यमपरं गुणमारभते तमपरं गुणं किंप्रकृतिकमारभते ? नान्तरेण विक्रियमाणं स्वं कोऽपि गुणः सजातीयमपरं गुणं शक्नोत्यारब्धुमिति । विक्रियमाणो हि गुणः सजातीयमपरं गुणमारभते । यथा लोहितशुक्लकृष्णा गुणाः स्वाश्रयद्रव्याश्रितकर्मणा तत्तद्रव्यसंयोगविभागाभ्यां विक्रियमाणाः परस्परं समवायेन एकीभूय पीतरूपेण निष्पद्यन्त इति पीतगुणमारभन्त इत्युच्यते । तत् समवायिकारणानि लोहितादयः पीतगुणस्य । इत्येवं निश्चेष्टसमवायिकारणं गुण
विपरीतार्थकारी विहारः, यथा-व्यायामजनितसम्मूदवाते जलप्रतरणादिरूपो व्यायामः । अयं हेतौ व्यायामे व्याधौ च सम्मृद वातेऽनुगुणः प्रतिभाति ।
For Private and Personal Use Only