________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५भध्यायः
विमानस्थानम् ।
१४३५ तत्र श्लोको। तस्य मात्रावतो लिङ्ग फलञ्चोक्तं यथायथम् ।
अमात्रस्य तथा लिङ्गं फलच्चोक्तं विभागशः॥ आहारविध्यायतनानि चाष्टौ सम्यक परीक्ष्यात्महितं विदध्यात् । अन्यश्च यः कश्चिदिहास्तिमार्गो हितोपयोगेषुभजेत तञ्च॥१२ इत्यग्निवेशकुते तन्त्रे चरकप्रतिसंस्कुते विमानस्थाने त्रिविध
कुनीयविमानं नाम द्वितीयोऽध्यायः॥२॥ गङ्गाधरः ---अध्यायार्थमाह-तस्येत्यादि। तस्येत्याहारस्य त्रिविधं कुक्षावित्यादिना कुक्षेरप्रपीड़नमाहारणेत्यादिना च मात्रावत आहारस्य लिङ्गं तस्य च फलश्च एतावतीम् आहारमात्रेत्यादिना उक्तम् । अमात्रस्य हीनमात्रस्यातिमात्रस्य च अमात्रावत्त्वमित्यादिना चिह फलञ्चोक्तम्। विभागश इति । तत्रापि तत्र हीनमात्रमाहारराशिमित्यादिना फलरूपं लिङ्गं हीनमात्रस्याहारस्योक्तम्। अतिमात्र पुनरित्यादिनातिमात्रस्याहारस्य प्रागभिहितं लिङ्गं फलञ्चेति विभाग विभागं कृलोक्तमिति। अध्यायार्थसंग्रहश्लोक एकः । प्रकृत्यादीनाम् अन्यश्च य इत्यनुक्तो यदि कश्चिद्धितोपयोगे मागौं वर्त्तते तमपि मागं भजेतेति आहारविधिविशेषाणामुपसंहारः॥१२॥
अध्यायं समापयति-अग्नीत्यादि। इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीय
स्कन्धे विमानस्थानजल्पे त्रिविधकुक्षीयविमाननाम
द्वितीयाध्याय जल्पाख्या द्वितीया शाखा ॥२॥ इति सम्वंशरीरम्। अनुक्तविध्युपग्रहार्थमाह ---अन्यश्चेत्यादि। अन्यश्चेति, ग्रहण्यतिसारादिवक्ष्यमाणामदोषक्षयकरो भेषजरूपो मार्ग इहामप्रदोषे हित इति सम्बन्धः ॥ १२॥ इति चरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान
व्याख्यायां त्रिविधकुक्षीयविमानं नाम द्वितीयोऽध्यायः ॥ २॥
For Private and Personal Use Only