________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५० चरक-संहिता।
शोपनिदानम् शरीरमुपशोषयन्ति। तं सर्वरोगाणां कष्टतमत्वात् राजयक्ष्माणमाचक्षते भिषजः। यस्माद्वा पूर्वमासीद् भगवतः सोमस्योडुराजस्य, तस्माद्राजयक्ष्मेति ॥ १२॥ .. तस्येमानि पूर्वरूपाणि भवन्ति। तद् यथाप्रतिश्यायः नवथुरभीक्ष्णं श्लेष्मप्रसेको मुखमाधुर्यम् अनन्नाभिलाषः अन्नकाले चायासो दोषदर्शनश्च अदोषेष्वल्पव्यायामाद् विषमाशनात् । जायते कुपितैर्दोषैप्तिदेहस्य देहिनः । कफप्रधानः दोषेहि रुद्वेषु रसवमसु । अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तराः । क्षीयन्ते धातबः सर्वे ततः शुष्यति मानवः । इति । नानाविधैरुपद्रवैरिति बहुभी रोगैः। सुश्रुतेऽप्युक्तम् । अनेकरोगानुगतो बहुरोगपुरोगमः। दुर्विज्ञ यो दुर्निवारः शोषो व्याधिर्महाबलः । इति । अत्र कफप्रधानत्रिदोषवचनं विपमाशनजे बोध्यं साहसादिजेषु साहसादितो वायुकोपाद्वह्निमान्दान कफपित्तद्धः। वक्ष्यते च । विविधान्य नपानानि वैषम्येण समश्नताम् । जनयन्त्यामयान् घोरान् विषमा मारुतादयः। स्रोतांसि रुधिरादीनां वैषम्याद विषमं गताः। रुद्धा रोगाय कल्पन्ते पुष्यन्ति न च धातवः। इति। ते इत्यादि स्पष्टम् ।
अथ शोषस्यास्य राजयक्ष्माख्यत्वे निरुक्तिमाह--तं सर्वरोगाणामित्यादि । यक्ष्मणां रोगाणां राजा. इति राजदन्तादिखात् पूर्व निपाते रूपसिद्धिः। पक्षान्तरेणापि निरुक्तिमाह-यस्माद् वेत्यादि। सुश्रुतेनाप्येतन्मतं केषाश्चिन्मततयोपन्यस्याप्रतिषेधादनुमतं ख्यापितम्, तद् यथा। राक्षश्चन्द्रमसो यस्मादभूदेष किलामयः। तस्मात् तं राजयक्ष्मेति केचिदाहुमनीषिणः ॥ इति। तेन राक्ष उडुराजस्य सोमस्य रोगोऽग्रमासीदिति राजयक्ष्मा ॥१२॥ . - गङ्गाधरः-अथास्य पूर्वरूपाण्याह-तस्येमानीत्यादि । तदयथा प्रतिश्याय इत्यादि । अन्नकाले चायासः भोजनव्यापारे श्रमः । एवमन्नकाले भोजनपाना
चक्रपाणिः-कर तमत्वादित्यत्र 'च'कारो लुप्तनिर्दिष्टो द्रष्टव्यः ; तेन, कष्टतमत्वाच्च तथा चन्द्रमसः प्रागुत्पन्नत्वाच्चेति हेतुद्वयं योज्यम् ; यदा कष्टतमत्वात्, तदा 'राजेव यक्ष्मा' राजयक्ष्मेति निरुक्तिोध्या ; उड़राजस्येति राजसंज्ञत्वं सोमस्य दर्शयति, ततश्च राज्ञो यक्ष्मा राजयक्ष्मेति निरुक्तिर्भवति ॥ १२ ॥ । चक्रपाणि:-पूर्वरूपेषु प्रतिदयायादिप्रायः कफयुक्तपूर्वरूपोत्पादो वायुनापि प्रधानेन
For Private and Personal Use Only