________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२५०
चरक-संहिता। (गोमयचूर्णीयमिन्द्रियम् वसतां चरमे काले शरीरेषु शरीरिणाम्। अभ्यग्राणां विनाशाय देहेभ्यः प्रविवत्सताम् ॥ इष्टांस्तितिक्षतां प्राणान् कान्तं वासं जिहासताम् । तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम् ॥ विनाशायेह रूपाणि यान्यवस्थान्तराणि च । भवन्ति तानि वक्ष्यामि ययोदेशं यथागमम् ॥३१॥ प्राणाः समुपरुध्यन्ते विज्ञानमुपरुध्यते । वमन्ति बलमङ्गानि चेष्टा हुापरमन्ति च ॥ इन्द्रियाणि विनश्यन्ति खिलीभवति वेदना।
औत्सुक्यं भजते सत्वं चेतो भीराविशत्यपि ॥ गङ्गाधरः-इति प्रेत्यभावाय जावितान्तकुल्लक्षणसंक्षेपोक्तिं प्रतिक्षाय अपुनर्भवाय जीवितान्तकृल्लक्षणोक्ति प्रतिजानीते-वसतामित्यादि। शरीरेषु वसतां शरीरिणां सूक्ष्मदेहवताम् अभ्यग्राणाम् आकुलानां नित्यानुबन्धानां विनाशाय दहेभ्यः प्रविवत्सतां दहं त्यक्त्वा प्रवासमिच्छताम्, इष्टान् प्राणान् तितिक्षतां क्षन्तीकुर्वताम्, कान्तं वासं स्थूलदेहे वासं जिहासता हातुमिच्छ. ताम्, तन्त्रयन्त्रेषु स्थलदेहेषु भिन्नेषु सत्सु अन्त्यं तमो मृत्यु प्रविविक्षतां प्रवेष्टुम् इच्छताम्, विनाशाय इह शरीरे यानि रूपाणि यानि चावस्थान्तराणि भवन्ति तानि वक्ष्यामि यथोद्देशं यथागमं यथाशास्त्रमित्यर्थः ॥३१॥
गङ्गाधरः--प्राणा इत्यादि। येषां प्राणाः श्वासोच्छासाः समुपरुध्यन्ते, तषां कर्म चिकित्सा न सिध्यति। येषां विज्ञानं ज्ञानेन्द्रियमुपरुध्यत तेषाम् । येषामङ्गानि बलं वन्ति त्यजन्ति तेषाम् । येषां चेष्टाथोपरमन्ति नश्यन्ति वागदहमनसां चेष्टाः तेषाम् । येषामिन्द्रियाणि श्रोत्रादीनि विनश्यन्ति ___ चक्रपाणिः-अभ्युग्राणामिति अभ्युद्गतानाम् । प्रविवत्सतामिति प्रवस्तुमुद्यतानाम् । ‘कान्तं वासम्' इत्यनेन सर्वप्राणिनामेव सर्वावस्थासु शरीरं काम्यं भवतीति दर्शयति । स्वकान्तमपि शरीररूपं वासं जीवितं वा बलादेव कर्मणा त्यज्यमानमपि इहोपचारात् 'इव'शब्दलोपाट वा स्वतन्त्रेण निद्दिश्यते, यथा जिहासतामिति तथा तितिक्षतामिति । तन्त्रं शरीरम्, तस्य यन्त्रं शिरास्नायवादिरूपं तन्त्रयन्त्रम्। तमोऽन्त्यमिति मरणरूपं तमः । विनाशायेह रूपाणीति
* gमाणाम् एवं पाठोऽपि वर्त्तते ।
For Private and Personal Use Only