________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६श अध्यायः सूत्रस्थानम् ।
६५१ भिन्नविश्लिष्टोद्विद्धोपिष्टादीनि पाचयति, आग्नेयस्वभावात् परिदहति कण्ठमुरो हृदयश्च ॥४४॥ __लवणो रसः पाचनः क्लेदनो दीपनश्च्यवनश्छेदनो भेदनस्तीक्ष्णः सरो विकाश्यधःस्रस्यवकाशकरो वातहरः स्तम्भवन्धसंघातविधमनः सर्वरसप्रत्यनीकभूत आस्यमानावयति कर्फ निष्यन्दयति मार्गान् विशोधयति सर्वशरीरावयवान् मृद्रकरोति रोचयत्याहारयोगी नात्यर्थ गुरुः स्निग्ध उष्णश्व ॥४५॥
स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानः पित्तं कोपयति रक्तं वयति तर्षयति मूच्छति मोहयति तापयति दारयति अवमूत्रितं मूत्रविप्राणिभिम बाते यत्र गात्रप्रदेशे। परिसपितं सविषप्राणिभिः स्पष्टं छिन्नं द्विधाभूतं शस्त्रण। भिन्नं शङ्क नाशये विद्धम् । विश्लिष्टमभिघातादिना विभक्तरूपम् । उद्विद्धमूद्ध तो विद्धं कण्टकादिना। उपिष्ट शिलादिभिरुपरिष्टात् पिष्टम् । तथाग्नयस्वभावात् कण्ठं परिदहति हृदयश्च परिदहतीत्यम्लातियोगनिमित्तं कर्म । समानहीनमिथ्यायोगेभ्यस्तु नैवम्, न वा रसान्तरसहितोपयोगाच्चेति ॥४४॥
गङ्गाधरः---आग्न यवसाधाल्लवणस्य कर्मगुणानाह-लवणो रस इत्यादि । च्यवनः स्रावकरः । विकाशी तीक्ष्णप्रभेदः-“विकाशी विकशत्येव सन्धिवन्धं विमोक्षयन्” इति। अधःस्रसी विष्यन्दनशीलः। अवकाशकरः सावादिकरणादाकाशांशप्रकाशकरः। स्तम्भादिविधमनः विनाशनः। सव्वेरसप्रत्यनीकभूतः सव्वंपां रसानां परिभवकरः। दृश्यते हि यत्र लवणोऽति. मात्रस्तत्र रसान्तरस्य न व्यक्तता। आहारयोगी आहारद्रव्यसंस्कारकरखेन उपयोगशीलः। इति लवणरसद्रव्यस्य लवणरसद्वारा कम्माणि। गुणास्तु नात्यर्थ गरुः स्निग्ध उष्णश्च ॥४५॥ __ गङ्गाधरः-अस्यात्योपयोगे दोषमाह-स एवंगण इत्यादि। सम्यगयोगेनैवमुक्तप्रकारगणकापि स लवणो रस एक एवात्यर्थमुपयुज्यमानः पित्तं कोपयति । रक्त बद्धयति । तपयति । मूच्छेयति तमः प्रवेशयति। मोहयति चक्रपाणिः-विकासी क्लेदच्छेदनः, अधःस्रसी विष्यन्दनशीलः, सर्वरसप्रत्यनीकभूत इति
For Private and Personal Use Only