________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६१०
चरक-संहिता। [आत्रेयभद्रकाप्योयः द्वौ रसाविति शाकुन्तेयो ब्राह्मणः। छेदनीय उपशमनीयश्चेति ॥४॥
त्रयो रसा इति पूर्णाक्षो मौद्गल्यः। छेदनीयोपशमनीयसाधारणाः ॥५॥
चत्वारो रसा इति हिरण्यानः कौशिकः । स्वादुहितश्च स्वादुरहितश्च अस्वादुर्हितश्चास्वादुरहितश्च ॥ ६ ॥
गङ्गाधरः-द्वावित्यादि। शाकुन्तेयो ब्राह्मणः खलु योऽभिव्यक्तः सन् रसनग्राह्योऽौँ भवति स रस एक एवेति सत्यम् । अभिव्यक्तः संस्तु योऽथों भवति स पुनश्छेदनीय उपशमनीयश्चेति द्विधाऽभिव्यज्यते। तस्माद द्वौ रसावित्युवाच । शरीरदोषादिच्छेदनेन वत्तेत इति च्छेदनीयः। शरीरदोषादरुपशमनेन वत्तेत इत्युपशमनीय इति। अम्ललवणकटुभिः शारीरक्लेदादिदोषश्छिद्यत इति हि दृश्यते मधुरतिक्तकषायैरुपशाम्यत इति च दृश्यते । इति ॥४॥ ___ गङ्गाधरः-त्रय इत्यादि। पूर्णाक्षो मौद्गल्यः खलु यो भावोऽभिव्यक्तः सन् रसनग्राह्योऽर्थो भवति स रस एक एवेति सत्यम् । अभिव्यक्तः सन् पुनर्योऽर्थो रसनग्राह्यो भवति स पुनश्छेदनीयोपशमनीयो साधारणश्चेति त्रिधाऽभिव्यज्यते तस्मात् त्रयो रसा इत्युवाच । तयोमिश्रीभावे च्छेदनोपशमने दृश्येते ॥५॥
गङ्गाधरः--चखार इत्यादि । हिरण्याक्षः कौशिकः खलु यो भावोऽभिव्यक्तः सन् रसनग्राह्योऽथों भवति स रस एक एवेति सत्यम् । अभिव्यक्तस्तु सन् योऽर्थो रसनग्राह्यो भवति स तु स्वादुहितश्च स्वादुरहिप्तश्चास्वादुहितश्चास्वादुरहितश्चेति चतुर्दाऽभिव्यज्यते। तस्माच्चखारो रसा इत्युवाच। रक्तशालियबगोधूममुद्गादिः स्वादुश्च हितश्च । मापादिस्तु स्वादुश्वाहितश्च। चुलुकीवसादिरस्वादुहितश्च आविकघृतादिस्वस्वादुश्वाहितश्चेति ॥६॥
से हि "रसतन्मानं गन्धतन्मात्रम्” इत्यादिवचनेन गुणव्यतिरिक्तद्रव्यमिति ब्रुवते। छेदनीय इत्यपतर्पणकारकः, उपशमनीय इति वृहणः ; साधारण इत्याग्नेयसौम्यसामान्याभयोरपि लङ्घन
For Private and Personal Use Only