________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७श अध्यायः
सूत्रस्थानम् ।
७२३ भवन्ति दोषोपचयप्रकोपप्रशमनिमित्तम् । ते तु भाद्रपदाधन द्विमासिकेन व्याख्याताः। तद्यथा-भाद्रपदाश्विनौ वर्षाः। कात्तिकमार्गशीषौ शरत् । पौषमाघौ हेमन्तः । फाल्गुनचैत्री वसन्तः। वैशाखज्यैष्ठौ ग्रीष्मः। आषाढश्रावणी प्रावृट” इत्यादि । तस्याशीतीयव्याख्याने सर्व लिखितमिति । षट्स्वृतुष्विति मोक्त्वा षट्सु कालेष्वभ्रागमेतिरूपेणोक्त्या संवत्सर इव पड़तुकोऽहोरात्रोऽपि शीतोष्णवर्षलक्षणः पूर्वरात्रपाद्यात्मकवर्षादिषडतुलिङ्गकः पित्तकफवातानां प्रचयप्रकोपप्रशमहेतुः ख्यापितः। तद्यथा-रात्रौ प्रथमदशदण्डात्मकवर्षासु पित्तमुपचीयते। मध्यरात्रे शरीद प्रकुष्यति । रात्रिशेषे हेमन्ते प्रशाम्यति । श्लेष्मा तु तत्र हेमन्ते रात्री शेषदण्डदशकरूपायां वषेत्तु लक्षणायां प्रचीयते। पूति प्रकुप्यति वसन्तलक्षणे। मध्याह्न ग्रीष्मलक्षणे प्रशाम्यति । सुश्रतेऽप्युक्तमृतुचर्याध्याये-- “तत्र पूर्वाह्न वसन्तस्य लिङ्गम् मध्याह्न ग्रीष्मस्य अपराह्न प्रावृपः प्रदोषे वार्षिकम् शारदमर्द्धरात्रे प्रत्यूषसि हैमन्तमुपलक्षयेत् एवमहोरात्रमपि संवत्सरमिव शीतोष्णवर्षलक्षणं दोपचयप्रकोपप्रशमैर्जानीयादिति ।” प्रचयादिषु प्रशब्दोपादानेन प्राधान्येन चयप्रकोपप्रशमाः ख्यापिताः। तेन वर्षासु कफस्य किश्चिञ्चयः, शरदि किश्चित्प्रकोपः, शान्तिहेमन्ते । हेमन्ते च पित्तस्य किश्चिञ्चयः, वसन्ते च किश्चित्कोपः, शान्तिीष्मादौ । ग्रीष्मोत्तरे च पित्तस्य कफस्य किश्चिच्चयः, प्रावृषि च किश्चित्कोपः, वर्षादौ शान्तिः । न वर्षान्ते । तत्र पुनश्चयः स्यादिति बोध्यम् । वस्तुतस्तु पित्तादीनामिति पूर्व पित्तस्य ग्रहणं विसर्गाभिप्रायेण। चयस्य च प्राथमिकत्वेन तदनुरोधाच चयस्य तु कफस्थाप्यादानप्रथमत्तों च सम्भवात्। यथाक्रममिति चयादिक्रमेण पित्तादीनां वर्षादिषु षट्मु एकैकशः प्रत्येक एवत्तौ यथाक्रमं भवन्तीत्यर्थः । एषा कालकृता मिथ्यायोगातियोगायोगव्यतिरिक्तसमयोगयुक्ता प्राकृता कालकृता गतिश्चयाद्या पुनश्वोच्यते। तेन उक्तञ्चान्यत्र-'चयप्रकोपप्रशमा वायोर्घादिष त्रिषु । वर्षादिषु च पित्तस्य कफस्य शिशिरादिषु ॥” कफस्य चयो वातस्य प्रकोपः । भाद्राश्विनादिद्विद्विमासरूपवर्षादिषु त्रिषु क्रमेण यथा पित्तस्य चयप्रकोपप्रशमाः, कफस्य चयप्रकोपप्रशमाः, वातस्य चयप्रकोपप्रशमा भवन्ति, ज्ञेयम्, तेन प्रावृषि श्लेष्मपित्तकोपेनाप्रधानेन न व्यभिचारः ; यदुक्तम्-“वर्षास्वग्निबले हीने कुप्यन्ति पवनादयः” इत्यत्र हि पवनादय इति पवनप्रधानाः, एवं वसन्ते वातपित्तप्रकोपे व्याख्येयम् । अत्र च पट्सु ऋतुपु पित्तश्लमवातानां प्रबलचयादयः विभज्यमानत्वेन पित्तचयकाले वातस्य कोपः, शरदि पित्तस्य प्रकोपकाले वातप्रशमः, हेमन्ते पित्तप्रशमः, कफस्य चयः, वसम्से
For Private and Personal Use Only