________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०६ चरक-मंहिता।
( स्नेहाध्यायः नातिबबाशिनश्चैव मृदुकोष्ठास्तथैव च । पिबेयुर्मध्यमां मात्रां मध्यमाश्चापि ये बले ॥ मात्रैषा मन्दविनशा न चातिबलहारिणी। सुखेन च स्नेहयति शोधनार्थे च युज्यते ॥ १५ ॥ ये तु वृद्धाश्च बालाश्च सुकुमाराः सुखोचिताः। रिक्तकोष्ठत्वमहितं येषां मन्दाग्नयश्च ये॥ ज्वरातीसारकासाश्च येषां चिरसमुत्थिताः । स्नेहमात्रां पिबेयुस्ते ह्रस्वां ये चावरा बले ॥ परिहारे सुखा चैषा मात्रा स्नेहनवृहणी। वृष्या बल्या निरावाधा चिरञ्चाप्यनुवर्तते ॥ १६ ॥ वातपित्तप्रकृतयो वातपित्तविकारिणः ।
चक्षुःकामाः क्षतक्षीणा वृद्धा बालास्तथाबलाः॥ अरुष्कादिव्याधिस्वभावाद, तदार्ताः कुष्ठिप्रभृतयश्च स्नेहस्य मध्यमां मात्रां पिबेयुः। नातिबहाशिनो नात्यल्पाशिनश्च ये मध्यमाहारा इति । अस्या गुणानाह-मात्रैपेत्यादि। मन्दविभ्रंशा अल्पवलेशकरी मात्रा ॥१५॥
गङ्गाधरः-अथ इस्वमात्रायोग्यं पुरुषमाह...ये वित्यादि। वृद्धबालादयः स्नेहमात्रां ह्रस्वां पिबेयुः। सुकुमारा मृदु स्वभावाः। सुखोचिताः सुखजनकभावाभ्यासवन्तः। येषां रिक्तकोष्ठवं शुन्योदरत्वमाहितं शून्ये सति कोष्ठे कष्टं स्यात् । येषां ज्वरादयो रोगाश्चिरोत्थितास्ते। ये चावराः कनिष्ठा बले दुर्बला इति।
इस्खमात्राया गुणानाह--परिहार इत्यादि। एषा हस्खा मात्रा खल्वल्पपरिहारविषयखात् सुखा। स्नेहनी च छहणी च । निराबाधा व्यापत्तिरहिता, चिरञ्च कालमेषा मात्रानुवर्तते, न शीघ्र निवत्तेते ॥१६॥
गङ्गाधरः-अथ “कश्च केभ्यो हितः स्नेहः इत्यनेन पृष्टः कः स्नेहः केभ्यो स्नेहकरणे, एतेन उत्तममात्रा संशमने एव परं, न तु शोधनाङ्गस्नेहे कर्तव्ये इति दर्शयति । ये स्वित्यादि ह्रस्वमात्रागुणः, परिहारे सुखेत्यल्पमात्रपरिहारत्वेन ॥ १५॥१६॥ चक्रपाणिः-यः स्नेहो यन्न कार्य स्तमाह-वातपित्तेत्यादि । वातपित्तविकारग्रहणेनैव वातपित्त
For Private and Personal Use Only