________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६०४ चरक-संहिता।
[स्नेहाध्यायः अहोरात्रमहः कृत्स्नम हश्च प्रतीक्ष्यते । प्रधाना मध्यमा ह्रस्वा स्नेहमात्रा जरां प्रति ।
इति तिस्रः समुद्दिष्टा मात्राः स्नेहस्य मानतः ॥ १३ ॥ एवमेते चतुष्करससंयोगाः पञ्चदश व्याख्याताः।
पश्चकान वक्ष्यामः । “पञ्चकान पञ्च मधुर एकमालस्तु गच्छति ।” तद, यथा-मधुरामललवणकतिक्तो मधुराम्ललवणकटुकपायो मधुरामललवणतिक्तकषायो मधुराम्लकटतिक्तकपायो मथरलवणकतिक्तकपायः । एवमेषां पञ्चानां पञ्चकरससंयोगानामादौ मधुर प्रयुज्यते। ___ अम्ललवणकटुतिक्तकाय एवमेकस्यादावम्लः प्रयुज्यते । एवमेते पट पञ्चक रससंयोगा व्याख्यानाः।
षट्कमेकं वक्ष्यामः। “पटक एकः पृथक पट् च त्रिपष्टिः स्य रसा इति ।" मधुरामललवणकटुतिक्तकषाय एवमेकः पट को रसः। पृथक् च पद मधरश्चाम्लश्च लवणश्च कटुकश्च तिक्तश्च कपायश्चेति । एवं समासव्यासयोगा। त्रिपष्टिर्भवन्ति रसा इति ॥ १२ ॥
गङ्गाधरः-अथ स्नेहस्य कति मात्राः कथंमाना इति प्रश्नयस्योत्तरमाहअहोरात्रमित्यादि। निदेशाव विधा मात्रा स्नहस्य प्रधाना मध्य । इस्वा च । क्रमेणाहोरात्रं या जरां प्रति प्रतीक्षते सा प्रधाना। या कृत्समहरा प्रति प्रतीक्षते सा मध्यमा मात्रा। या चाद्धाहं जरां प्रति प्रतीक्षते सा इस्वा मात्रा भवतीति। मात्राणामन्यतमया मात्रया चतुःष्टिप्रविचारणानामन्यतमया प्रविचारणया खल्वोदनादिप्रविचारणान्यतमया विचारणया स्नेहस्तेन भिषजा स्नेहः प्रयोक्तव्यो य ओकादीन जानाति। ओकोऽभ्यास एतस्य पुसोऽस्य स्नेहस्याभ्यासोऽस्ति न चापरस्येत्येवं यो भिषक् जानाति । ऋतुश्च यो जानाति। यस्याभ्यस्तस्य स्नेहस्य यस्मिन ऋतौ विधानमविशनश्च जानाति यः। तत्र व्याधिश्च यो जानाति। वातजो वा पित्तजः कफजोऽन्यथा वेति, तत्र योग्यं स्नेहं तस्य कालं ज्ञाखा प्रयोजयेत्. तत्रापि पुरुपं यथा तथा जानीयात् ।
चक्रपाणिः-मात्रायाः संख्या प्रमाणञ्चाह - अहोरात्रमित्यादि। अहोरात्रशब्दोऽष्टप्रहरोपलक्षणः, एवमहाशब्दाहिशब्दौ चतुःप्रहरद्विप्रहरोपलक्षणो, तेन प्रहराद्यतीतेऽप्यनि पीता मात्रा यथोक्तप्रहरकालप्राप्तया दिनान्तरे रात्रौ वा जीर्यमाणा मन्तव्या। अन्ये त्वहोरात्रशब्देन न्यनेनाप्यता युक्ता रात्रिरहोरात्रेणैवोच्यते, कृत्स्नाही तु प्रहरोपलक्षणाविति वदन्ति, अत्र यदाहोरात्र
For Private and Personal Use Only