________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५४
चरक-संहिता। (खुड्डाकचतुष्पादः यस्य येते गुणाः सर्वे सन्ति विद्यादयः शुभाः। स वैयश ई सदभूतमहन प्राणिसुखप्रदः ॥ १६ ॥ श.स्त्र ज्योति प्रकाशार्थ दर्शनं बुद्धिरात्मनः ।
ताभ्यां भित्रक सुयुक्ताभ्यां चिकित्लन् नापराध्यति ॥१७॥ राश्रय इत्यद एकैकं वैद्यशब्दाभिनिष्पत्तो प्रकृतवैद्यपदवाच्यतेन निष्पत्तौ अल व्यथम् । यस्य तु एते सव्यं गुणाः शुभा विद्यामत्यादयः सन्ति न तु विद्या वितके इत्यादयः पड़ गुणा इत्यत आह --विद्यादय इति। एते पूर्वश्लोकोक्ताः । न तु पूर्व श्लोकात् पूवश्लोकोक्ताः सान्निध्यात्। स सद्भूतमसदभूतं वैद्यशब्दं सद द्यशब्दमहेन योग्यतां प्राप्नुवन प्राणिमुखपदः स्यात । एतच्च पृथक् पृथक् वेद्यगुणकयनं भिमबुभूपोः शास्त्रेऽर्थविज्ञाने इत्यादिषु गुणेषपाज्जेन प्रयत्नातिशयकत्र्तव्यताशापनाथम्. चतुषु वैद्यादिषु पादेषु वैद्यस्यैवातिप्रारान्यध्यापनार्थश्च । तथाविधी हि वैद्य एकः पादत्रयवैगुण्येऽपि कल्पनाशिक्षया मन्त्रणेन सम्पाद्य चिकित्सितुं शक्नोति। न तु गुणवदा विना गुणवन्तोऽपि त्रयः पादाः ॥१६॥
गङ्गाधरः-वैद्यस्य शास्त्राध्ययनावश्यकवं दर्शयति-शास्त्रमिति । इह शास्त्रशब्देनायुवेदः। तत्रानुपतितपरञ्च ज्योतिपादिकम् । लोके दर्शन. क्रियायां यथा वस्तूनां प्रकाशार्थ ज्योतिरालोकः दर्शनं चक्षुः, तथा चिकित्सायां शास्त्र रोगादिप्रकाशार्थम् । दशेनं बुद्विरातन इति आत्लन एव बुद्धि. देर्शनं चक्षुः नान्यस्येति । बुद्धिरित्युक्तावात्मनो बुद्धिरिति लाभे पुनर्बुद्धिप्रशमकत्वम्, आश्रयः सढ़ गुर्वाश्रय • इत्यर्थः, वैद्यशब्दाभिनिप्पत्तावित्यनेन पारमाथिकवैद्यत्वनिष्पत्ताविति दर्शयति। एत इत्यनेनैव लब्धेऽपि विद्यादय इति वचनं पूर्वोक्तगुणव्युदासार्थ, तद्व्युदासश्च विद्यादिदेवान्तर्भावणीयः, एतच्च प्रवन्धेन पृथक्पृथग्गुणकथनं वैद्यस्य गुणोत्पादने यत्रातिशयं कारयिनु तथा वैद्यादिभ्यः पादेभ्यो वैद्यस्यैव प्रधानतोपदर्शनार्थ, वैद्यो हि पादत्रयं विगुगमपि कल्पनया शिक्षया मन्त्रणेन च । सम्पाद्य चिकित्सितु पारयति, न तु गुणववैद्य विना द्रव्यादयः पादा गुणवन्तोऽपि क्षमाः ॥ १५॥१६॥
चक्रपाणिः-शास्त्रशब्देन शास्त्राभ्यासकृता मतिः, सा हि वाह्यालोक इव प्रकाशार्थ वस्तूनां ग्रहणयोग्यतां कतु मित्यर्थः, दर्शनमिव दशनं चक्षुरिवेत्यर्थः । यद्यपि बुद्धिरात्मन एव भवति तथाप्यात्मन इत्यनेन सहज बुद्धिं दर्शयति, यतः सहजां बुद्धिं बिना शास्त्रजा बुद्धिर्या
* सर्वगुणाश्रयः इति पाठान्तरम्। । यन्त्रणेन चेति क्वचित् पठ्यते ।
For Private and Personal Use Only