________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। (इन्द्रियोपक्रमणीयः पादतैलनित्यो, धूमपः, पूर्वावभाषी, सुमुखः, दुर्गेष्वभ्युपपत्ता, होता, यष्टा, दाता, चतुष्पथानां नमस्कर्ता, बलीनामुपहर्ता, अतिथीनां पूजकः, पितणां पिण्डदः, काले हितमितमधुरार्थवादी, वश्यात्मा, धर्मात्मा, हेतावीर्युः, फले नेयुः, निश्चिन्तो, मूर्द्धस्रोतोऽभ्यङ्गपादतैलनित्यः मात्राशितीये प्रोक्त-"नित्यं स्नेहाईशिरसः”. इत्यादिनोपदिष्टगुणत्वात् मृद्ध तैलनित्यः स्यात्। तथा तत्रोक्त "न कर्णरोगाः” इत्यादिगुणवान् कतैलनित्यः स्यात्, तथाणुतैलनस्यनित्यः स्यात् । कर्णादिच्छिद्रमिह स्रोतः। अभ्यङ्गतैलनित्यः स्यात् मात्राशितीयोक्त“स्नेहाभ्यगात्” इत्यादिगुणवात् तथा तत्रोक्त-खरखम्” इत्यादिगुणवात् पादतैलनित्यः स्यात् । इत्येतेऽत्र विधीयन्ते। धूमप इति मात्राशितीयोक्तगुणवात् तत्रोक्तत्रिविधधूमपः स्यादित्यत्र विधीयते। पूर्वावभाषीति अभ्यागतं वा मान्यपूज्यशीलादिकं सुहृदं वा प्रथमतो दृष्ट्वा पूर्वमेवावभापितुं कुशलप्रश्नादिवाचा आलपितु शीलवान् स्यात् । सुमुखः पराङमुखतारहितः स्यात् पराङ्मुखे हि स्वभ्यागताद्यभिशापात् ।
दुर्गेष्वभ्युपपत्ता दुर्गातिपतितानामभिमुखीभूयोपपत्ता स्यात् । दुर्गाद्धतो हि दुर्योद्धारकमाशीभिरभिनन्दयति । होता बलिवैश्वादिभिहोमकारकः स्यात् । यष्टा देवयजनकारकः स्यात् । तयोहिं ग्रहा देवाश्च प्रसीदन्ति । ते च ब्रह्मणाऽध्यस्ताः, तेषां प्रसादेन ब्रह्मप्रसादो लक्ष्यते। दाता दीनेभ्योऽदीनेभ्यश्च ब्राह्मणादिभ्यः सजनेभ्यः। चतुष्पथानां नमस्कर्ता स्यात्, तादृशपथेऽपि नानापुण्यपुरुषगमनागमनलभ्यबहुपुण्यखात्। बलीनामुपहर्ता पूजोपहाराणामुपहरणेन देवताप्रसादात् ; अथवा बलिजीविका तदुपहर्ता स्यात् । अतिथीनां पूजकः स्यात् बहुधम्म हेतुखान् । पितृणां पिण्डदः स्यात् पितृलोकतृप्त्या विष्णुप्रीतेः। काले यथाकालानतीते हितं मितञ्च मधुरं मनोशमर्थवन्तं प्रयोजनवन्तं वदितुं शीलवान् स्यात् ; तथावे हि लोकानुरक्तो भवति । वश्यात्मा वश्येन्द्रियमनाः स्यात् । आत्मशब्देनात्र मन उच्यते, तदशेन केशसंहरणे वचनं तीर्थादिप्राप्तनिमित्तेन कृतमुण्डनस्नातकादिविषयम् । पूर्वाभिभाषी प्रथमसम्भाषणशीलः । दुर्गेष्वभ्युपपत्ता दुर्गतिपतितानां रक्षिता, यया यज्ञकारका, वश्यात्मा वश्येन्द्रियः आत्मशब्दोऽयमिन्द्रियवचनः, हेतावीप्यु रित्यनेन येन हेतुनायं धनवान् विद्यावान् वा जातः स हेतुर्मे कथं भवेदिति प्रयत्नवता भवितव्यमिति दर्शयति फले नेयुरित्यनेन, परस्य न धनादि
For Private and Personal Use Only