________________
Shri Mahavir Jain Aradhana Kendra
५म अध्यायः
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
अथास्य दशमे पाके समांशं छागलं पयः । दद्यादेषोऽतैलस्य नावनीयस्य संविधिः ॥ तस्य मात्रां प्रयुञ्जीत तैलस्यार्द्धपलोन्मिताम् । स्निग्धविन्नोत्तमाङ्गस्य पिचुना नावनैस्त्रिभिः ॥ त्रहात् त्राच्च सप्ताहमेतत् कर्म्म समाचरेत् । निवातोष्णसमाचारो हिताशी नियतेन्द्रियः ॥
३०१
स्यात् तथा पाचयेत । अथ दश वारान् पक्त्वेतिलाभे दशमे पाके इति विशेषवचनात नव वारान् पक्त्वा दशमवारपाके क्वाथेन सह तैलसमांशं छागलं पयो दुग्धं दद्यात् " क्षीरं स्नेहसमं मतम्” इति वचनात । अत्रेयं व्यवस्था । “काथ्याच्चतुर्गुणं वारि पादस्थं स्याच्चतुर्गुणम् । स्नेहात, स्नेहसमं क्षीरं, कल्कस्तु स्नेहपादिकः ॥ चतुर्गुणन्त्वष्टगुणं द्रवद्वैगुण्यतो भवेत् । अनुक्ते स्नेहमाने तु प्रस्थ एको विधीयते ॥ अकल्कोऽपि भवेत् स्त्र े हो यः साध्यः केवले द्रवे ॥” इत्येताभिः परिभाषाभिश्चन्दनादीनि द्रव्याणि तावन्मितानि काथ्यत्वेन ग्राह्याणि भवन्ति, तिलतैलमस्थे द्वात्रिंशत्पले पाच्ये चतुःशतशरावमितं जलमष्टगुणं यावद्भ्यो द्रव्येभ्यो भवति, तेन चन्दनादीनां द्रव्याणां पञ्चाशच्छरावम् । उदूखले कुट्टयित्वा चतुःशतशरावे जले पक्त्वा चत्वारिंशच्छरावमितकामवाल्कमिदं तिलतैलस्य चतुःशरावं पचेदित्येकः पाकः । एवं दशधा पाचयेत् । तत्र शेषे दशमे पाके च्छागदुग्धं शरावचतुष्टय दत्त्वा पचेत, निद्रवे सति अवतारयेत्; एषोऽणुतैलस्य संविधिः । तैलमिदं किमभ्यङ्गादिषु योज्यं न वेत्याह- नावनीयस्येति । तस्येत्युक्तस्याणुनान्नस्तं लस्यार्द्धपलोन्मितां मात्राम् अशीतिरक्तिकमिततोलकचतुष्टयों नावनैस्त्रिभिरिति वारत्रयेणार्द्धपल' तैल' पिचुना तूलकवर्त्तिकया नासापुटे प्रयुञ्जीत नावनविधिना सिद्धिस्थाने वक्ष्यमाणेन । हात्त्रादाच्च सप्ताहमिति । प्रथमस्नेहनावनदानदिनं त्रग्रहात्
1
For Private and Personal Use Only
I
दशगुणमित्येतदपि तैलादिति योजनीयम् । अत्र तु क्वाथ्य भेषजं तावन्मानं ग्राह्यं यावत् काथार्थोपपत्तिं पानीयं भेषजचतुर्गुणं भवति । " काथ्याच्चतुर्गुणं वारि" इत्यस्या अबाधितत्वात् । न तु भेषजात् शतगुणेऽम्भसीत्येवं व्याख्येयं यदाह जतूकणः - ' पक्ताथाम्बुशतप्रस्थे दशभागस्थितेन तु । तैलप्रस्थं पचेत् तेन च्छागक्षीरेण संयुतम् ॥" इति । यदि वा तैलप्रमाणानुमानेनैव " स्नेहाच्चतुगुणं काथ्यम् इति परिभाषया काथ्यद्रव्यपरिमाणं व्यवस्थापनीयम् । पिचुनेति
I