________________
Shri Mahavir Jain Aradhana Kendra
म अध्यायः
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम् ।
प्रयोगपाने तस्याष्टौ कालाः सम्परिकीत्तिताः । वातश्लेष्मसमुत्क्लेशः कालेष्येषु हि लक्ष्यते ॥ स्नात्वा भुक्ता समुल्लिख्य क्षुत्वा दन्तान् विघृष्य च । नावना अननिद्रान्ते चात्मवान् धूमपो भवेत् ॥
२६१
I
ड
गङ्गाधरः- नन्विमांस्त्रीन् धूमान् स्वाभीष्टतः किं पिबेत् किं कालविशषेण इत्याह--प्रयोगपान इत्यादि । प्रयोगपाने प्रायोगिकधूमपाने तस्य धूमत्रपानस्याष्टौ कालाः प्रकीर्त्तिता ब्रह्मादिभिरिति शेषः । कस्मादष्टौ काला इत्याह-- वातेत्यादि । हि यस्मादेष्वष्टसु वक्ष्यमाणस्त्रामानन्तरादिषु कालेवेव वातश्लेष्मसमुत शो लक्ष्यते न त्वन्यस्मिन् काले, तस्मात् स्त्राखा क्वा समुल्लिख्य वमित्वा श्रुत्वा क्षत्रथ कृत्वा दन्तान् विघृष्य च नावनाञ्जननिद्रान्ते नावनान्तेऽञ्जनान्ते निद्रान्ते च आत्मवान् साधु मनस्वी धूमपो यथा भवेत् । इति प्रायोगिकधूमपाने काला आचाय्र्येण मुक्तकण्ठेनोक्ताः । स्नैहिकवैरेचनिक धूमपानकालस्तु क इत्यत आह- तथेत्यादि । तथा तेन प्रकारेणान्यस्य धूमस्येति ऊर्द्धजत्रुजा वातकफात्मानो वातात्मानः कफा - मानव रोगा न भवन्ति । तस्येत्यनेन पूर्वेण पेयाः स्युरित्यादिना परेण चान्वयो बोध्यः । एतेन चैतदुक्तं भवति, शैत्येन गुणेन वायुः कुध्यति चेत तदा वातात्मानो रोगा भवन्तीति, तदैव स्नैहिकधूमो विधेयो यदा पुरुषो रुक्षः स्यात् रौक्षेत्र भवति सति तदैव रौक्ष्यहरस्त्र हिकधूमपो भवेत् तस्मात् “अस्नात्खा चाप्यत्वा च नोल्लेख्य न क्षवोद्भवे । निशि जागरणान्ते च रतान्ते स्नैहिकं पिबेत् ॥” इति बोध्यम् । तेन रौक्षत्रगुणकुपितवातात्मानो रोगा न भवन्तीति, द्वयोः कोपे खष्टौ कालाः । कफात्मानश्च रोगास्तदा भवन्ति यदा पुरुषोरुक्षः स्यात तदैव कफवृद्धिकाले कफहरमूर्द्ध वैरेचनिकधूमपो भवेत् । तस्मात् स्नात्वा भुत्तवेत्याद्यष्ट काला बोध्याः । एतेन तदपास्तं यत् परैः “प्रायोगिक धूम एव प्रायः स्वस्थवृत्ताधिकारिको न तु स्नैहिकवेरेचनिकावित्यत आचाय्येण
For Private and Personal Use Only
चक्रपाणिः- धूमपानकालं दर्शयति - प्रयोगेत्यादि । प्रयोगपाने प्रायोगिक धूमपाने एतेऽष्टौ कालाः ; स्नैपाने तु वातवृद्ध उपलक्षितः कालो, वैरेचनिकपाने तु श्लेष्मवृखु उपलक्षितो मन्तव्यः । प्रायोगिक एव प्रायः स्वस्थवृत्ताधिकारे, तेन तत्काल एव कष्टरवेणाभिधीयते ; यदि वा प्रयोगपाने सततपाने स्वस्थाधिकार इति यावत् तेन धूमत्रयस्याप्येते काला भवन्ति ।
;