________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८ चरक-संहिता।
[मात्राशिती: शुष्कां विगभी तां वर्ति धूमनेत्रापितां नरः। स्नेहाक्तामग्निसंप्लुष्टां पिबेत् प्रायोगिकी सुखाम् ॥ १०॥ वसाघृतमधूच्छिष्टयुक्तियुक्तैर्बरोषधैः।
वत्तिं मधुरकैः कृत्वा स्नैहिकी धूममाचरेत् ॥ ११ ॥ शरेषिका शरपुष्पस्य नाली शरिकेति प्रसिद्धा तां लिम्पेत् वक्ष्यमाणां वर्ति यवसत्रिभामित्यायनुवादार जलपिष्टस्तै हरेणुकादिभिभेषजैयेवाकारा मध्यस्थूला प्रान्तद्वयम्सूक्ष्मा तथाष्ठाइलिवर स्थूला अष्टाङ्कलदीर्घा वत्तियेथा भवति तथा लिम्पेत् । तां वतिं यवाकारादिरूपां शुष्कां शुष्कीकृत्य शरेषिकामाकृष्य विगो कृखा स्नेहनाक्तामभ्यज्य वक्ष्यमाणधूमनेत्र धूमपाननलिकायां पत्रिंशदङ्ग लिमितायां त्रिकोषाफलितायाम अर्पितां तच्छिद्रे प्रविष्टमेकमा यस्यास्ताम् अग्निसंप्लुष्टामन्यस्मिन्नग्रेोऽग्निना दह्यमानां सुखां मुखजनिकां प्रायोगिकी पिबेत। एतेन प्रायौगिकोऽयं धूमः प्रयोगः प्रतिदिनमभ्यासस्तस्यैव पेयध मस्य संशा प्रायोगिक इति तद्धमाय वत्तिः प्रायोगिकीति संज्ञा ॥१०॥
गङ्गाधरः-धूमप्रसङ्गात् रुक्षस्य स्वस्थस्य स्नैहिकधूमवत्तिमाह-वसेत्यादि। वसा जन्तुस्त्र हः, घृतं सर्पिः, मधूच्छिष्ट सिक्थकं, तैयुक्तितो युक्तैर्भिपजा युक्त्या यथायोग्य वत्तिकरणोचितैः प्रयोजितैरिह वरोषधैरुत्तमोषधर्मधुरकैर्जीवनीयगणद्रव्यैः पिष्टैः कृतां वर्ति स्नैहिकी रुक्षस्य स्नेहनकारिणीम। धूममाचरेत् । प्राग्वत् स्वनलिकापितामग्निसंप्लुष्टामित्यनुवत्तते । एष धूमः स्नैहिको रुक्षस्य स्वस्थस्य स्नेहनविशनार्थ न तु सतताभ्यासार्थम् ॥११॥ अन्थिपर्णकं, शरेषीका शरपुष्पस्य नाला शरिकेति प्रसिद्धा। अत्र विधानं-पिष्टभैषजैः शरिका तथा वेष्टयितव्या यथाऽष्टाङ्गलायताऽङ्गष्ठपरिणाहा च वर्तिः स्यात्, ताच शुष्कां सती वर्ति शरेषीकामाकृष्य स्नेहेनाभ्यज्याग्निनैकस्मिन्ननोऽवदह्यमानां वक्ष्यमाणधूमपाननलिकायां मूलरन्ध्र निवेश्यातो घूमः पेयः। प्रायोगिकी च नित्यपेयवर्तिसंज्ञा। सुखामित्यनेनाक्टुबत्वमनत्ययत्वञ्च दर्शयति ॥ १० ॥
चक्रपाणिः-स्नैहिकधूमवतिमाह-वसेत्यादि। मधूच्छि, सिकथकं, वरौषधैरिति मधुरकविशेषणं, मधुरकाणि जीवनीयानि जीवकर्षभकादीनि। युक्तियुक्तरित्यनेन तथा वसादिग्रहणं कर्तव्यं यथा वत्तिः कत्तुं पार्य्यत इति दर्शयति । वर्तिकरणच पूर्ववत् । स्नैहिकी स्नेहन कारिका ॥११॥
For Private and Personal Use Only