________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
सूत्रस्थानम् । संयोगे च विभागे च कारणं द्रव्यमाश्रितम् ।
कर्तव्यस्य क्रिया कर्म कर्म नान्यदपेक्षते ॥२४॥ इति दृष्ट्वा गुणकर्मणी असमवायिकारणे भवत इत्याहुः । तेषामयं हि प्रमादः। सूत्रकृतकणादेन क्रियागुणवत् समवायिकारणमिति पूर्वस्मादनुवत्ता समवायिकारणपदं द्रव्याश्रयीत्यादि सूत्र कृतम् । तेन द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमन्यापेक्षः समवायिकारण गुण इति गुणलक्षण पर्यवसितम्। यदि हि गुणो गुणान्तरस्य समवायिकारण न भवति कथं तर्हि गुणाश्च गुणान्तरमारभन्ते इति वचनं तत्र व कणादेनोक्त सङ्गच्छते ? गुणा हि द्रव्याश्रिता रूपरसादयः खल्वन्यापेक्षाः स्वस्वाश्रयद्रव्यनिष्ठक्रियापेक्षाः स्वाश्रयद्रवयनिष्ठक्रियया परिणमन्तः कचित् साधारणभूताः पृथकखगुणं समवायेनाऽऽपद्यमानाः पृथग्भूय तेजोऽम्बुभूमिषु लोहितशुक्लकृष्णरूपेण मधुराम्लादिरूपेण गुणान्तरहीनाः सन्तो द्रव्याश्रयिणः सन्तश्च समवयन्ति कायें। इति समवायिन एव कारणानि गुणाः। न च ते स्वाश्रयद्रव्याणां संयोगविभागेषु कारणानीति लक्षणसमन्वयः । प्रकृतिगुणानां कार्यगुणेषु समवायित्वमन्तरेण निरुपादानककाऱ्यांपत्तिः स्यात् । कर्माणि तु तथैव कार्ये समवयन्ति सन्ति द्रव्याश्रयीणि च सन्ति जायमानगुणानाश्रया एव स्वाश्रयद्रव्याणां संयोगविभागेषु कान्तरानपेक्षकारणानि भूत्वापि कार्यभूतविशिष्टकर्मरूपेण परिणामे द्रव्यान्तरनिष्ठमन्यत् कर्मापेक्षमाणानि न तु संयोगविभागेष्वकारणानि तस्मान्न गुणाः। प्रकृतिभूतद्रव्याणि कार्यद्रव्याश्रयीणि संयोगविभागेषु खक्रियापेक्षकारणानीति सयोगविभागेषु न साक्षात् कारणानि। स्वक्रियया परिणम्य समवायीनीत्यन्यापेक्षसमवायीनि सन्त्यपि नागुणवन्तीति न गुणाः। रूपरसादिप्रकृतिभूतगुणारम्भकाण्यहङ्कारादीनि न द्रव्याश्रयीणीति न गुणाः। इति व्याख्यातं गुणलक्षणम् ॥२३॥
गङ्गाधरः-क्रमिकखात् कम्मेलक्षणमाह, संयागे च विभागे चेत्यादि ।चकारद्वयेन कार्यमारभमाणानां द्रव्याणां संयोगे पुनर्विभागे चाथ पुनः संयोगे चाथ पुनविभागे चेत्येवं पुनःपुनः संयोगे च विभागे च यत कारणमन्यत्
चक्रपाणिः-कर्मलक्षणमाह, संयोग इत्यादि। संयोगे च विभागे च युगपत् कारणं, तेन संयोगे उत्तरदेशसंयोगकारकविभागकारणे तथा विभागे च विभागजविभागमात्रकारणे संयोग
For Private and Personal Use Only