________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१म अध्यायः ]
सूत्रस्थानम् ।
१०६
1
स्तेजो वायुराकाशं कालो दिग़ात्मा मन इति द्रव्याणि । रूपरसगन्धस्पर्शाः संखग्राः परिमाणं पृथक्त्वं परत्वापरत्वे संयोगविभागौ बुद्धय इच्छाद्वेषौ सुखदुःखे प्रयत्नाश्च गुणाः । उत्क्षेपणमवक्षेपणं प्रसारणमाकुञ्चनं गमनमिति कर्माणि । एषां लक्षणानि । - क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम् । द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । (एकद्रव्यमगुण) संयोगविभागेष्वनपेक्ष कारणमिति कम्मेलक्षणम् इति । स्पर्शश्च वायोः । दृष्ट लिङ्गमित्यनुवृत्तम् । पृथिव्या गन्धः अपां रसः । तेजसो रूपम् । रूपरसगन्धस्पर्शant पृथिवी । रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः । तेजो रूपस्पर्शवत् । स्पश वान् वायुः । त आकाशे विद्यन्ते । सर्व्वाधार तैव दिकालयोः । निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् । अपरस्मिन् परं युगपच्चिर क्षिप्रमिति काललिङ्गानि । नित्येष्वभावादनित्येषु भावात् कारणे कालाख्येति । इत इदमिति यतस्तद्दिश्यं लिङ्गम् । आदित्यसंयोगाद, भूतपूर्व्वाद भविष्यतो भूताच्च प्राची । तथा दक्षिणा प्रतीच्युदीची च । एतेन दिगन्तरालानि व्याख्यातानि । प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरसञ्चारा बुद्धिः सुखदुःखेच्छाद्वे पप्रयत्नाश्वात्मनो लिङ्गानि । प्रवृत्तिनिवृत्ती प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् । आत्मेन्द्रियार्थसन्निकर्षे ज्ञानस्य भावो - siraश्च मनसो लिङ्गमिति । व्याख्यायते च । शब्दगुणमाकाशस्य नोक्ता निष्क्रमण प्रवेशन लिङ्गमाकाशस्येत्युक्त्या आकाशस्यानभिव्यक्तशब्द सहितोत्पन्नत्वमभिप्रं त्य प्रकृतिगुणमध्येऽनभिव्यक्तत्वात् शब्दगुणो नोक्तः कार्य्यगुणत्वेन परीक्षितश्च । तद्दर्शयिष्यामः शब्दपरीक्षायाम । स्पर्शश्च वायोदृष्ट' लिङ्ग तेजसो रूपमपां रसः पृथिव्या गन्ध इत्युक्ता पुना रूपरसस्पर्श गन्धवती पृथिवी, रूपरसFarara आप par: स्निग्धा इति वचनेन संसर्गजाः काय्यगुणा द्रवस्निग्धत्वादयः खापिताः । तेजो रूपस्पश वत्, स्पर्शवान् वायुरित्युक्त्या च द्रवस्निग्धादिगुणोत्पत्तौ भूतान्तरसंसर्गे हेतुः पूर्व्वपूर्व्वभूतानुप्रवेशः खापितः । तस्मात् क्रियागुणवत्समवायिकारणमित्यस्य व्याखानं पूर्ववद बोध्यम कार्य्यद्रव्ये ह्यारभ्यमाणे प्राणिनि नवभिर्द्रव्यैरप्राणिनि सप्तभिरात्मनो वज्र्जं तेषां परस्परं संयोग विभागाभ्यां परिणामे जायमाने वाकाशादाकाशः शब्दश्लक्ष्णादि
*
Acharya Shri Kailassagarsuri Gyanmandir
मुद्रितपुस्तके तु सञ्चारा इत्यत्र विकारा इति पाठान्तरं दृश्यते तथा न दृश्यते बुद्धिरित्यधिकः पाठः ।
For Private and Personal Use Only