________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८४
चरक-संहिता। अथ दशमहामूलीयः शब्दमात्रेण तन्त्रस्य केवलस्यैकदेशिकाः। भ्रमन्त्यल्पवलास्तत्र ह्यनल्पे नैव * वर्तकाः ॥ पशुः पशूनां दोब्बल्यात् कश्चिच्चापि वृकायते। स सत्यं वृकमासाद्य प्रकृतिं भजते पशुः॥ तद्वदज्ञोऽज्ञमध्यस्थः कश्चिन्मौखर्य्यसाधनः । स्थापयत्याप्तमात्मानमातन्त्वासाय भिद्यते ॥ बभ्रुगढ़। इवोर्णाभिरबुद्धिरबहुश्रुतः। किं वै वक्ष्यति संजल्पे कुण्डभेदी जड़ो यथा ॥ ततः किं परीक्षणं स्यादिति ? अत आह-शब्देत्यादि। ऐकदेशिकास्तन्त्रैकदेशमात्रं विद्वांसो ये पाल्विकोपेता भिषजस्ते यतस्तन्त्रेऽल्पबलास्तस्मात् केवलस्य सम्पूर्णस्य तन्त्रस्य शब्दमात्रात् शब्दमात्रं संश्रुत्य भ्रमन्ति । कस्मात् ? ह्यनल्पे नैव वर्तकाः। हि यस्मादनल्पे सम्पूणे कृत्स्ने तन्त्र न वत्तेन्ते न कृत्स्ने तन्त्रेऽधीतिनो भवन्ति ।
पाल्लविकोपेता ऐकदेशिका यथा लोकानां मनःसंक्षोभं जनयन्ति, तदपर दृष्टान्तेन दर्शयति-पशुरित्यादि। कश्चिच्च पशुरपरेपां पशूनां दोब्बल्यात तेषां मध्ये स्वप्राबल्याद ढकायते दृक इवाचरति । वृकः क्षुद्रव्याघ्रः। स पशूनां दुर्बलानां मध्ये प्रबलो कायमाणः पशुः सत्यं कमासाद्य प्राप्य प्रकृतिं तत्पशुभावमेव भजते कायमाणतां जहाति। तद्वत् कश्चिदशो भिषक्सिद्धसाधितो भिषक्छद्मचरो वाप्यज्ञजनमध्यस्थः सन् स्वस्य मौखयं मुखरतां दम्भप्रौढोक्तिपण्डितश्रेष्ठमानितादिविविधवाचालतां साधयन् सन्नात्मानमाप्त प्रमाणपुरुषं स्थापयति, निज एव प्रमाणपुरुषो यद् वदति तदेव प्रामाणिकं नान्यः कोऽपि तदधिकस्तत्समो वा पण्डितो भिषग वास्तीति तदनेषु मध्ये ब्रूते। स सत्य माप्तमासाद्य भिद्यते प्रकृतभिषपण्डितनिकटे तन्मौखय्यसाधनं स्वस्याप्तताख्यानं सर्व तस्य दूरीभवति । तत्रापरदृष्टान्तमाह-बभ्रु रित्यादि । बभ्रुः वृद्धनकुलो यथा चोर्णाभिर्बहुवचनाद बहुभिमेपलोमभि ढः संतृतो मेष इव
प्रकृतिः स्वभावः। बभ्र रूर्णावान् कश्चित् पशुः, स यथा मेपं न ज्ञात्वा आत्मीयामिव * ज्याशब्देनैवेति पाठान्तरम् ।
- मूढ़ इति वा पाठः।
For Private and Personal Use Only