________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११८०
चरक-संहिता। अर्थ दशमहामूलीयः कतमानिशरीरीयः पन्नरूपोऽप्यवाकशिराः। यस्य श्यावनिमित्तश्च सद्योमरण एव वा ॥ अनुज्योतिरिति ख्यातस्तथा गोमयचूर्णवान्। द्वादशाध्यायकं स्थानमिन्द्रियाणामिदं स्मृतम् ॥ २५ ॥ अभयामलकीयञ्च प्राणकामीयमेव च। करप्रचितिकं वेद-समुत्थानं रसायनम् ॥ संयोगशरमूलीयमासिक्तनीरकं तथा । माषपर्णमभृतीयश्च पुमान् जातबलादिकम् ॥ चतुष्कद्वयमप्येतदध्यायद्वयमुच्यते। रसायनमिति ज्ञयं वाजीकरणमेव च ॥ ज्वराणां रक्तपित्तस्य गुल्मानां मेहकुष्ठयोः। शोषोन्मादेऽप्यपस्मारे क्षते शोफोदरार्शसाम् ॥ ग्रहणीपाण्डुरोगाणां श्वासकासातिसारिणाम् ।
छर्दिवीसपतृष्णानां विषमद्यविकारयोः ॥ दिना गोमयचूर्णवानित्यन्तेन द्वादशाध्यायकमिन्द्रियाणां स्थानमिदमुच्यते ॥२५॥
गङ्गाधरः-अथ चिकित्सास्थानार्थमाह-अभयामलकीयञ्चेत्यादिभिचतुर्भिः पादः रसायनमध्यायः। संयोगशरमूलीयमित्यादिभिश्चतुर्भिः पादैाजीकरणमध्यायः, इति चतुष्कद्वयं चतुश्चतुःपादैरध्यायद्वयमुच्यते। रसायनं वाजीकरणञ्चेति। एतदध्यायद्वयादनन्तरं ज्वराणामित्यादिना
मानार्थानीति ज्ञानार्थानि। इन्द्रियाणामिति इन्द्रियादिविशियानाम्। चतुष्कद्वयमिति रसायनपादचतुष्क एकः, वाजीकरणपादचतुष्क एकः, चतुष्पादश्चाध्यायो भवतीति युक्त
मेवाध्यायत्वम्।
* अणुज्योतिरिति पाठान्तरम् । + हिक्कायां श्वासकासे च ग्रहणीपाण्डुरोगयोः ।
छर्दिवीसतृष्णानां विषमद्यविकारिणाम् ॥ इति पाठान्तर ।
For Private and Personal Use Only