________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०७
म अध्यायः]
सूत्रस्थानम्। देशनिष्ठासु तत्तद्देशाधिकरणे गभशरीराद्यवयवबलवणप्रकृतिसत्त्वसाम्यवागवीर्यादिविशेषहेतवो गुणा अनभिव्यक्ता जाता एव । शब्द इवाकाशस्य न, हि निगुणा दिशो जाता इति। . एते खलु स्वस्वसहजातानां खादीनां नवानामनभिव्यक्ता ये शब्दादयो गुणा देवनरादिचेतनाचेतनकायमारभमाणेभ्यः खादिभ्यः परस्परं पुनःपुनः संयोगविभागाभ्यामेकीभावे स्थूलाः सन्तः खादिभ्य एव यथास्वं शब्दादयस्ते तत्कार्यारम्भककर्मणाभिव्यज्यन्ते। ते तेऽभिव्यक्ताः शब्दश्लक्ष्णादयो गुणा देवनरादिषु खादिभ्यो जायमानेषु खादिष्वाश्रिता भवन्ति । तेषां जायमानानां खादीनां समवायिकारण प्रकृतिभूतानि खादीनि नव दिगन्तानि जातानां खादीनां द्रव्याणि । नैते कम्मगुणाः स्पर्शादिभ्यो जातेषु शीतोष्णादिस्पर्शादिषु आश्रिता भवन्ति। तस्माच्छीतादीनां समवायिकारणानि प्रकृतिभूतस्पर्शादयो गुणा न द्रव्याणि, न वा कम्मसामान्यविशेषसमवाया। अत एव वक्ष्यते"गुणा गुणाश्रया नोक्ता” इति। देवनरादेरुत्पादकाः पित्रादयस्तु यत्र कार्येषु खादिष्याश्रिताः कर्मगुणास्तेषां निमित्तकारणानि न समवायिकारणानीति, न ते पुत्रादेव्याणि। एवं कर्मणा निष्पन्ना गुणाः कर्मगुणा इति वा भवतु अथवा कारणवचनेन कार्य इति खाापनाद, यत्र कार्ये जायमाने जायमानाः कम्मगुणाः कर्माणि गुणाश्चाश्रिता भवन्ति, तेषां जायमानकर्मागुणाश्रयाणां यद, यत् समवायिकारणं तत् तत्तस्य तस्य द्रव्यमिति।
पूर्ववदनभिव्यक्ता गुणा एवाभिव्यज्यमाना जायमाना उच्यन्ते । स्पशरूपरसगन्धा इव प्रागेव व्यक्ता एव सङ्ख्या परिमाण पृथकख परखापरत्वे संयोगविभागौ सुखदुःखे इच्छाद्वेषौ प्रयत्नश्चेत्येते गुणा जाताः सहजा एवेति, स्पर्शरूप रसगन्धाः साधारणरूपाः पूज्वेपूव्र्वभूतानुप्रवेशे यात्मकादिषु वाय्वादिषु शीतोष्णखरस्पर्शरूपेण जायमानः स्पर्शः लोहितशुक्लकृष्णवर्णतया जायमानं रूपं खाद्वखादुरूपेण जायमानो रसः सौरभरूपेण जायमानो गन्धश्च न जायमाना उच्यन्ते। प्राक् साधारणखेन व्यक्ततयैव जातवादनभिव्यक्ततया जातास्तु येऽभिव्यज्यन्ते ते जायमानाः काव्ये जायमानेऽभिधीयन्ते । तदा स्पर्शाः शीतादयो रूपाणि लोहितादीन्येवमन्यान्यपि पृथक्त्वगुणवन्ति जायन्ते। न च तानि जायमानपृथक्त्ववन्ति, पृथक्लादयो हि प्रागेवाभिव्यक्ता न खनभिव्यक्ता इति ते शीतादयो न द्रव्याणि। कर्माणापि
For Private and Personal Use Only