________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११७४
चरक-संहिता। . . अर्थेदशमहामूलीयः विषयाणामारोग्यमाधत्ते, सोऽस्य काम इति यथाप्रश्नमुक्तमशेषेण ॥१६॥
अथ स भिषगादित एव प्रष्टव्यो भिषजाष्टविधं भवति, तन्त्र, तन्त्रार्थान्, स्थानं स्थानार्थान्, अध्यायम्, अध्यायार्थान् प्रश्नं प्रश्नाथांश्चेति। पृष्टन चैतद्वक्तव्यमशेषेण, वाक्यशो वाक्यार्थशोऽर्थावयवशश्चेति। तत्रायुर्वेदः शाखा विद्यासूत्र ज्ञानं शास्त्रलक्षणं तन्त्रमित्यनर्थान्तरम्। तन्त्रार्थः पुनः स्वलक्षणैरुपदिष्टः, स चार्थः प्रकरणैर्विभाव्यमानो भूय एव शरीरवृत्तिहेतुव्याधिकर्मकालकार्यकर्तकरणविधिविनिश्चयाद, यति-यत् पुनरित्यादि। यदस्य विद्वद्ग्रहणं विद्यद्भयो यद् गृह्यतेऽध्ययनेन तदायुवेदग्रहणं यच्च यशः यच्च शरण्यमातुराः शरणागता भवन्ति सोऽस्य कामः। या च सम्मानशुश्रूषा यच्चेष्टानामभीप्सितानां विषयाणामारोग्यमाधत्ते सोऽप्यस्य काम इति यथाप्रश्नमशेषेणोक्तं भवति ॥१६॥
अपरान् प्रश्नान् दर्शयति-अथेत्यादि। स एवंविधमुत्तरं कृतवान् भिषक् पुनरपि भिषजा अपरेणादित एवाष्टविधं प्रष्टव्यो भवति। तत्रमिति । तन्त्रञ्च तन्त्राांश्च स्थानञ्च स्थानाथांचाध्यायमध्यायाथांश्च प्रश्नञ्च प्रश्नार्थीश्चेति । पृच्छतेः कर्माणीमानि स भिषक् चेति द्विकम्मकखात् । एवं पृष्टेन तेन भिषजा वाक्यशो वाक्यार्थशोऽर्थावयवशश्वाशेषेण प्रतिवक्तव्यः। इति । तद यथा-तत्रायुर्वेद इत्यादि। तत्रायुर्वेदः शाखाविद्यासूत्रमित्यादिस्तन्त्रस्य पायः। इति तन्त्रप्रश्नस्योत्तरम् ।
अथ तन्त्रार्थप्रश्नोत्तरमाह-तत्रार्थः पुनरित्यादि । स्वलक्षणैस्तत्रस्य लक्षणेरायुर्वेद इत्यादिभिः पायाथरुक्तः। आयुव्वेंदशब्दाथै उक्तः। शाखा पुनरथर्ववेदस्योपाङ्गभूता वृक्षस्येव, विद्यासूत्रं परापरविद्याद्वयस्य सूत्रं सूचनम्, ज्ञानं ज्ञायतेऽनेनेति ज्ञानं, शास्त्रलक्षणं शास्त्राणि लक्ष्यन्तेऽनेनेति शास्त्रलक्षणम् । तन्त्रं तत्राते नियम्यते विधौ वा प्रतिषेधे वा कर्म येन तत् तन्त्रमिति। एष संक्षेपतोऽर्थः। स चार्थो भूय एव बहुतरं प्रकरणैर्विभाव्यमानः शरीरादि.
चक्रपाणिः- भिषक परीक्षार्थं पृच्छाविधिमाह- अत्यादि। स्वलक्षणैरिति “ततश्चायुः
For Private and Personal Use Only