________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११७२
चरक-संहिता। अथ दशमहामूलीयः ब्राह्मणैः, आत्मरक्षार्थ राजन्यैः, वृत्त्यर्थं वश्यैः, सामान्यतो वा धर्मार्थकामपरिग्रहार्थं सव्वैः तत्र च यदध्यात्मविदां धम्मपथप्रजानां ब्राह्मणैरिति। वक्ष्यमाणेन सामान्यतो वेत्यादिना ज्ञापितवाद ब्रह्मचर्याश्रमं यथाविधि ये ब्राह्मणा आयुवेदं नाधीयते। अथ तैगृहाश्रमं यथाविधि प्रजानामनुग्रहार्थमेव । धर्मार्थमयुक्वेंदोऽध्येतव्यो न तूपजीवनार्थम् । ब्रह्मचर्याश्रमो ह्यध्ययनकालस्तत्र यदधीते तद्धयं सर्वं यत् कर्तुमर्हन्ति । गृहाश्रमस्तु क्रियाकालो न सध्ययनकालस्तत्र यदधीते यथाविधि तदपि धर्माथ धम्म्य न जीविकाथ धम्म्यम् । तत्र यदि जीविकां करोति याजनाध्यापनप्रतिग्रहैस्तदा पातकभाग भवतीत्यभिप्रायेण मनुसंहितायामुक्तम् । चिकित्सकान् देवलकानित्यादितः श्राद्धे भोजने पङ्क्तिदूषका ब्राह्मणाश्चिकित्सकस्य मृगयोरित्यादिना चाभोज्यान्ना ब्राह्मणाः। आत्मरक्षार्थ राजन्यरिति । ब्रह्मचर्याश्रमे ये च राजन्या. यथाविधि नायुर्वेदमधीयतेऽथ तैरात्मरक्षार्थ गृहाश्रमे यथाविधि आयुवेदोऽध्येतव्यो न जीविका धर्मकामार्थ वा। गृहाश्रमे खकाले अध्ययनात् तेवनधिकारात्। वृत्त्यर्थं वैश्यैरिति । ब्रह्मचाश्रमे ये च वैश्या यथाविधि चायुवेदं नाधीयतेऽथ तैहाश्रमे बाणिज्यववृत्त्यर्थं यथावदायुर्वेदोऽध्येतव्यः। सामान्यतो वा धर्मार्थकामपरिग्रहार्थ सव्वैरिति। सः ब्राह्मणराजन्यवैश्यैः सामान्यतः खलु ब्रह्मचर्याश्रमे यथावदायुदाध्ययनस्य थर्म्यखाद्धर्मार्थकामपरिग्रहार्थमायुर्वेदोऽध्येतव्य इति । पूर्वकाले हि दक्षेन्द्रभरद्वाजादिभि हाश्रम एवायुव्वेदोऽधीतस्तेषां ब्रह्मचर्याश्रमकाले खायुर्वेदस्य प्रकाशो नाभूत्। यदा तु ब्रह्मणायुर्वेदः प्रकाश्य प्रजापतये दत्तस्ततोऽनन्तरं जातावश्विनौ ब्रह्मचर्याश्रमे प्रजापतित आयुर्वेदमधिजगाते। तौ वैद्यशब्दं लेभाते। चिकित्साजीविनी चाभूतां न प्रजा पतीन्द्रादयः। एवमेव मत्त्यलोके भरद्वाजमरीच्यादयो ब्रह्मचर्याश्रमे आयुव्वेदस्य प्रकाशाभावादध्ययनं न चक्रुवैद्यशब्दश्च न लेभिरे न चिकित्साजीविनो बभूवुः। ततोऽनन्तरकाले जातास्त्वम्वष्ठा ब्राह्मणा ब्रह्मचर्याश्रमे यथावदायुर्वेदमधिजगिरे, वैद्यशब्दश्च लेभिरे। चिकित्सितञ्च तेषां . प्रजीवनं धम्म्य मित्यतो न पङ्क्तिदूषका न चाभोज्यानाः। इत्यभिप्रायेणोक्तं चिन्तयति, वेदयति इत्यन्यस्य प्रतिपादयति, अनुविधीयत इति तदनुगुणान् देहेनानुतिष्ठति ;
* कारक्षार्थमिति चक्रसम्मतः पाठः।
For Private and Personal Use Only