________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रस्थानम्।
३० अध्यायः]
११६७ न ह्यायुर्वेदस्याभूतोत्पत्तिः* उपलभ्यतेऽन्यत्रावरोधो+पदेशाभ्याम् । एतच्च द्वयमधिकृत्योत्पत्तिमपदिशन्त्येके । स्वाभाविकञ्चास्य लक्षणमकृतकम्, यदुक्तमिहादेोऽध्याये। यथाग्नेरोष्ण्यम्
ननु तहि चायुव्वंदादि शास्त्रमपि चानित्यं ब्रह्मण उत्पन्न मिति चेत् तदोच्यते-न ह्यायुध्वंदस्येत्यादि। हि यस्मादायुवेदस्य खल्वन्येषामपि वेदादीनां शास्त्राणामुपदेशस्वरूपाणामभूतानामुत्पत्तिवोपलभ्यते। यत्र वायु. ब्वेद एवं खल्वन्योऽपि वेदादिः पूर्व भूतः स एव ब्रह्मणो मुखात् तत्स्वलक्षणत एवोत्पन्न इति भूतोत्पन्नः। स्वभावसंसिद्धलक्षणो यत्र वायवेदोऽन्यो वा वेद आसीत् स एव यदि ब्रह्मणो मुखादुत्पन्नस्तदानश्वरश्च काले भवतीति अशाश्वत इति चेत तदोच्यते-अन्यत्रेत्यादि। अवरोधोपदेशाभ्यामन्यत्र नायु. वेदस्याभूतस्योत्पत्तिब्रह्मणो मुखादुपलभ्यते। उपलभ्यते तु ब्रह्मणो मुखादुपदेशः पूर्वभूतस्यायुर्वेदस्य तथान्यस्य वेदादिशास्त्रस्येति काले चावरोधः स्यान्न च विनाशः स्यादिति। एकखे तद्रुयमुपदेशावरोधावधिकृत्योत्पत्तिम् आयुर्वेदस्योपदिशन्ति । यथा--अथात आयुवेदोत्पत्तिमध्यायं व्याख्यास्याम इत्युवाच। यदि ब्रह्मणो मुखादुपदेशस्तदैवानित्य इति चेन्न, कस्मात् ? यतः स्वाभाविकश्चास्य लक्षणमकृतकं, यदुक्तमिह चादरे अध्याये। आदेर दीर्घ जीवितीयाध्याये खल्विह तन्त्रे-हिताहितं सुखं दुःखमायुस्तस्य हिताहितम् । मानञ्च तच्च यत्रोक्तमायुर्वेदः स उच्यते इति यल्लक्षणमुक्तं तदस्यायुर्वेदस्य अकृतकं स्वाभाविकं स्वभावसंसिद्धलक्षणं न ब्रह्मणा कृतम् । यथाग्नेरोष्ण्यमपां
अथायुर्वेदस्य यत्र तत्रोत्पत्तिश्रवणेन कथं नित्यत्वमित्याह-न ह्यायुर्वेदस्येत्यादि। अभूत्वोत्पत्तिः पूर्वमसत्त्ववदुत्पत्तिः ; अन्यत्रावबोधोपदेशाभ्यामिति यत्र यत्रायुवंदस्योत्पत्तिरुक्ता, तत्र तत्रावबोधादुपदेशाद् वा, अवबोधादुत्पत्तियथा ब्रह्मण आयुर्वेदोत्पत्तिः, उपदेशाचोत्पत्तियथा-इन्द्रोपदेशाद् भरद्वाजेन मत्य लोके आयुर्वेद उत्पादित इत्यादि । एतदद्वयमित्यवबोध उपदेशश्च ; ननु स्वभावसंसिद्धलक्षणत्वादिति यो हेतुरुक्तः, तत्र स्वाभाविकञ्च लक्षणं भविष्यति अनित्यञ्च, यथा-घटे कम्बुग्रीवाकारतादि, न हि तत् स्वाभाविकमपि घटस्य नित्यतां साधयतीत्याह--स्वाभाविकञ्चत्यादि। अकृतकमिति नास्मदादिना कृतम् ; यदुक्तमिह “स्वलक्षणतः सुखदुःखतः” इत्यादिना, आद्य चाध्याये दीर्घञ्चीवितीये “हिताहितं सुखं दुःखम्' इत्यादिना ; अत्रैवाकृतकत्वे दृष्टान्तमाह-यथाग्नेरोष्णामित्यादि । एतेनास्य लक्षणस्य
* अभूत्वोत्पत्तिरिति वा पाठः। + भवरोध इत्यत्र अवबोध इति चक्रसम्मतः पाठः ।
For Private and Personal Use Only