________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७श अध्यायः
सूत्रस्थानम् ।
१०३७ भव्यादल्पान्तरगुणं काश्मर्यफलमुच्यते। तथैवाल्पान्तरगुणं तूदमम्लं परूषकात् ॥ कषायं मधुरं टङ्क वातलं गुरु शीतलम् । कपित्थमामं कण्ठन्न विषन प्राहि शीतलम् ॥ मधुराम्लकषायत्वात् सौगन्ध्याञ्च चिप्रदम् । तदेव सिद्धं दोषघ्न विषन्न ग्राहि गुद्धपि ॥ विल्वन्तु दुज्जरं सिद्धं दोषलं पूतिमारुतम् । स्निग्धोषणतीक्ष्णं तदबालं दीपनं कफवातजित् ॥ रक्तपित्तकरं * वालमापूर्ण पित्तवर्द्धनम् । पक्कमान जयेद वायु मांसशुक्रबलप्रदम् ॥
कषायमधुरप्रायं गुरु विष्टम्भि शीतलम् । शीतमम्लमुष्णम्। रसनिदेशे वीर्यप्राप्ती खामलकस्याम्लस्य शीतवीर्यदर्शनाद् वीर्यान्तराशकानिवारणार्थ पुनः शीतमुष्णमित्युक्तम् । भव्यादित्यादि। भव्यफलस्य ये गुणाः उक्ता मधुरामलकपायविष्टम्भिखगुरुशीतलश्लेष्मपित्तकरखग्राहिखवक्त शोधनखानि, तेभ्योऽल्पान्तरा अल्पभेदा गुणा यस्य तत् । हृद्यमित्यादिना सुश्रुतोक्तगुणाः पूर्व दर्शिताः। तथैवेत्यादि । तूदफलमुत्तरापथे प्रसिद्धं परूषकादल्पान्तरगुणम् । परूषकस्य गुणाः पूवे. मुक्ताः पित्तश्लेष्मप्रकोपिखाम्लखादयस्तेभ्योऽल्पान्तरा अल्पभेदा गुणा यस्य तत् । कषायमधरमित्यादि । टङ्क काश्मीरदेशे प्रसिद्धम्। कपिमित्यादि। आममपक्वं कपित्थफलम् । तदेव सिद्धं पक्वं कपित्थफलम् । विल्वन्वित्यादि। सिद्धं पक्वं विल्वफलम्। तद्धालमामं स्निग्धोष्णादिगुणम् । रक्तपित्तेत्यादि। आम्रमाम्रफलं बालं रक्तपित्तकरमसम्पूर्णमाम मध्यममपक्वं पित्तवर्द्धनम् । तयोर्दर्शयति ; परूषकादीनान्तु मधुराम्लभेदेन द्विरूपाणां य एव परूषकादयोऽम्लास्त एव पित्तश्लेष्मकरा इति। पारावतः कामरूपप्रसिद्धः, अत्र यो मधुरः स शीतः, यश्चाम्ल: स उष्णः इति ज्ञेयम् ; एवं रसनिर्देशेनैव वीर्ये लब्धेऽपि पुनः वीर्याख्यानम् अम्लस्य आमलकस्य शीतता* वातपित्तकरमिति चक्रः ।
For Private and Personal Use Only