________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
880
चरक-संहिता। [आत्रेयभद्रकाप्यीयः कारणं रससंख्याया रसानुरसलक्षणम् । परादीनां गुणानाञ्च लक्षणानि पृथक पृथक् ॥ पञ्चात्मकानां षट्त्वञ्च रसानां येन हेतुना। ऊद्धानुलोमभाजश्च यद्गुणातिशयाद रसाः ॥ षण्णां रसानां षट्वे च अतिमुक्ता विभक्त यः । उद्देशश्चापवादश्च द्रव्याणां गुणकम्मणि ॥ प्रवरावरमध्यत्वं रसानां गौरवादिषु । पाकप्रभावयोलिङ्ग वीय्य संख्याविनिश्चयः ॥ षण्णामास्वायमानानां रसानां यत् स्वलक्षणम् ।
यद् यद्विरुध्यते यस्माद येन यत्कारि चैव यत् ॥ द्रव्यसंख्या त्रिषष्टिः। ततः संयोगाः सप्तपञ्चाशदित्यारभ्य हेतुलिङ्गोपशान्तिषु इत्यन्तेन रससंख्यायाः कारणम्। व्यक्त इत्यादिना रसो नास्तीह सप्तम इत्यन्तेन रसानामनुरसानाञ्च लक्षणम्। ततः परापरत्वे इत्यारभ्य प्रवत्तेते इत्यन्तेन परादीनां गुणानां सप्रयोजनानि स्वरूपनिर्देशलक्षणानि पृथक् पृथक् । चकारात् गुणागुणाश्रया नोक्ता इत्यारभ्याथेमादिशेदित्यन्तेन तन्त्रव्याख्यानोपदेशः। षड़विभक्तीरित्यारभ्य न्यूनातिरेकविशेष इत्यन्तेन पञ्चात्मकानां रसानां भूतद्वयाधिक्येन पाञ्चभौतिकत्वं पटत्वं तस्य हेतुश्च। ततस्तत्रेत्यादिना पुनरुभयतो भाज इत्यन्तेन यदगुणातिशयाद्रसा ऊर्धानुलोमभाजः। तषां षण्णामित्यारभ्य सम्य गुपयोजयेदित्यन्तेन पण्णां रसानां पट्त्वे अतिभुक्तानाम् एकैकस्यातिमात्रभुक्तानां विभक्तयो विभागाः । शीतं वीट्येणेत्यारभ्य द्रव्याणां गुणकर्मणि उद्देशश्चापवादश्च। चकारात् तदुदाहरणानि । ततो रौक्ष्यादिति आरभ्य सोऽवरस्तूभयोरपीत्यन्तन रसानां गौरवादिषु प्रवरावरमध्यत्वम्, परश्चात इत्यारभ्य तत्रोपलक्षयेदित्यन्तेन पाकस्य लिङ्गम्, ततः परं मृदुतीक्ष्णेत्यारभ्य वीय्येसंख्या, वीर्यान्वित्यारभ्य कृता हि सेत्यन्तेन वीय्यम्, रसो निपात इत्यारभ्य रसपाकादिज्ञानं, रसवीरयेत्यारभ्य उदाहत इत्यन्तेन सोदाहरणं प्रभावलिङ्गम् । षणां रसानामित्यारभ्य सविकाश्यथ इत्यन्तेन षष्णामास्वाद्यमानानां माईतो दृष्यसंस्यैव निर्गुणत्वाद रसानामित्यर्थः। कारणं रससंख्याया इति “रसानां तत्र
For Private and Personal Use Only