________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमो लम्चः ।
तारावलिः पदसमीपगतेव तस्या
स्तारुण्यवीरुध इवापतिता सुमालिः ॥ ४२ ॥ तस्या गुरूजवनशोभितरशना मदनराजधानी कनकप्राकारावलिरिव मारमहानिधिनिधानवेष्टितभुजगीव मीनकेतनोपवनवृतिसुर तरुवल्लीव व्यराजत ।
हार: किं वा सकलनयनाहार एवाम्बुजाक्ष्या __ यहा वक्षोरुहगिरिपतन्निर्झरस्यैष पूरः । किं वा तस्याः स्तनमुकुलयोः कोमलश्रीमृणालो
भाति स्मैवं विशयवशतः स्त्रीजनैः प्रेक्ष्यमाणः ॥ ४३ ॥ नासामणिवक्रपयोजमध्यविभासुरोऽयं जलबिन्दुरेव । आहोस्विदस्या नवमौक्तिकं किं नासाख्यवंशाद्गलितं गरिष्ठम् ।।४४ कि काममन्त्रबीजालिः किं वा तद्विरुदावलिः । किंचित्कुचाब्जभृङ्गालिमकरी संशयं व्यधात् ॥ ४५ ॥ एवमलंकृतां मदनमोहनमन्त्रदेवतामिव साक्षादागतां विषमवाणकेलीमिव तरुणी रमणीजनचूडामणिं सखीजनः कामदेवस्य वेदिकामध्यविलसितमणिपट्टिकामध्यासीनस्य परिसरं शनैः शनैः प्रापयामास । तदनु सकलतूर्यस्वनितेषु मुखरितदिगन्तरेषु, मन्त्रविदां वचनेषु व्याजृम्भमाणेषु, वेदिकामभितो मङ्गलमणिदीपेषु देदीप्यमानेषु, पूज्यमानेषु हव्यवाहेषु जाज्वल्यमानेषु, परिणयमङ्गलदर्शनकुतूहलविवृतनयनेषु पुरंध्रीजनेषु, जनितसंमर्दनेषु परिपत्परिकरेषु, पार्थिवेषु निजभुजाङ्गदपरस्परसङ्घर्षविगलत्कनकशकल. व्याजेन बाहुप्रतापकणानिव किरत्सु, प्राप्ते च शुभे मुहूर्ते, जीवंधरस्वामी धनपतिनरपतिना वारिधारापुरःसरं प्रतिपादितां तिलोत्तमासुतां पद्मां पाणी परिजग्राह ।
For Private And Personal Use Only