SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवंघरधम्पुकाव्ये शरीरिणी कान्तिपरंपरेव सदेहबन्धा शशिनः कलेव । अचञ्चला विद्युदिवापरेव श्रीधारिणी तस्य चकास्ति पत्नी ॥१७॥ गन्धर्वदत्ता तस्यास्ति तनया विनयोज्ज्वला । या मन्मथमहाहर्म्यवलभीमणिदीपिका ॥ १८ ॥ अम्या बाल्ये कुवलयदृशो विग्रहं त्यक्तुकामे __ तारुण्ये चागमनरसिके मन्मथद्वारचारे । माध्ये याते चतुरिमरसेऽप्यागते तत्कशाङ्गया ___ मध्यं सूक्ष्मं जघनवलयं भूधराभं विभाति ॥ १९ ॥ मुखेन्दुलोलाक्ष्याः सितरुचिरुचि निन्दतितरां भुवो चापाटोपं सपदि अषकेतोः कलयतः । कुचौ मन्दं मन्दं लिकुचतुलना कन्दलयतः शनैः पादन्यासो मदकरमराली विजयते ॥ २० !! सा राजपुरे साराकारा स्वयमद्वितीयापि वल्लकोविजयिनो यूना द्वितीया भविष्यतीति दैवज्ञोपज्ञवचनविरूम्भविजृम्भितचिन्तो महीकान्तः कान्तया सह संमन्त्र्य राजपुरोपवनालङ्कारस्य सागरमेन. नाम्रो निनराजस्याधिपरिसरं संजातां युवयोः प्रीतिलता शनैः पल्लवि. तामद्य फलितां निकीर्घस्वदागमनाय मां प्राहिणोत् । नाना धरोऽहं तब नौविनाशविभ्रान्तिमापाद्य महीध्रमेनम् । आनीतवानित्यभिधाय रोऽयं खगोऽधरोप्ठं घटयाञ्चकार ॥२१॥ श्रीदत्तोऽपि तदाकर्ण्य बहुधा मुमुदेतराम् । . नष्टस्यार्थस्य संप्राप्तिः कामदोग्त्री भुदां न किम् ।। २२ ॥ विद्याधरीकरसरोरुहरानहंस युग्मायमानचलचामरवीज्यमानम् । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy