SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मीनधाचम्पुकाव्ये चत्वरे काष्टाङ्गारेण कारिता घोषणां निशम्य विशालतरकुतुकः सात्यं. धरिस्तदोष निवारयामास । सहायताधिष्ठितपार्श्वभागो जीवंधरो मन्दिरतः प्रतस्थे । द्विपेरनेकैः परिवार्यमाणो हिमाद्रिरन्ध्रादिव यूथनाथः ॥ २६ ॥ ततो निजयशःकलशार्णवतरङ्गैरिव चामरयुगलपरिशोभितपार्श्वतया नभःसरणिसञ्चरणयोग्यौ पक्षाविव बिभ्राणः लपनबिलतलविगलितफेनशकलदन्तुरितपुरोभागतया रयविनितपवनसमानीतमुक्तोप.हारानिवाङ्गीकुर्वाणैः स्यदनिरीक्षणक्षणहीणान्हरिदश्वहरिताश्वान्गगनकाननदुर्गेपु धावमानानन्वेष्टुमिव गगनसरणिमुत्पतद्भिर्जयोदः कः परिष्कृतात्रयानलकुर्वन्तः, शताङ्गचक्रक्षुण्णक्षितितलोतधूलिकापालि. का सकलनगदन्धंकरणधुरीणां पताकापटपवनेन धून्वन्तः, देहबद्धा इव वीररसाः, मूर्ता इवोत्साहाः, जयलक्ष्मीनिवासमन्दिरकनकप्राकारायिताङ्गदविभ्रानितभुजदण्डाः, लक्ष्मीविहारलीलाडोलायितमुक्तादामविरानितवक्षःस्थलाः, ते जीवंधरप्रमुखाः, कार्मुकटङ्कारवेलारवमुखरितदिशावकाशाः संयदङ्गणं समाजग्मुः । प्रविदारणमाविरास तत्र प्रथमं बाणगणैः परस्परम् । अरुषा च रुषा क्षणं विहीनं विशिखादप्यभवच्छिखी यतः ॥२७॥ नखांशुमयमञ्जरीसुरभिलां धनुर्वल्लरी समागतशिलीमुखां दधदयं हि जीवंधरः । अनोकह इवाबभौ भुनविशालशाखाञ्चितो निरन्तरजयेन्दिराविहरणैकसंवासभूः ॥ २८ ॥ कुण्डलीकृतशरासनान्तरे जीवकाननममर्षपाटलम् । स्पर्धते परिधिमध्यमास्थितं चन्द्रबिम्बमिह सन्ध्ययारुणम् ॥२९॥ जीवंधरेण निर्मुक्ताः शरा दीपा विरेनिरे । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy