SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्वितीयो लम्बः । नमस्यत गुरुं सोऽयं मनस्यामितभक्तितः ॥ १०६ ॥ इति महाकवि हरिचन्द्रविरचिते श्रीमति चम्पुजीवंधरे सरस्वतीलम्भो नाम प्रथमो लम्बः । द्वितीयो लम्बः । Acharya Shri Kailassagarsuri Gyanmandir * अथ हृद्यतमं किंचन विद्यासदनमासाद्य वयस्य संसदवतंसितं, जीवंधरः सकलकलाकलापैरपरकला विलुब्धैरिव स्वयं निवासगृहतया परिगृहीतादखिलपण्डिताखण्डलादस्मादाचार्यवर्यादखिलाः कलाः, वसन्तादिव वनप्रियः कलरवलीला : घनसमयादिव के कतरुणः केका, अध्यगीष्ट । M तच्चित्ताम्बुजमापेदे सूर्योलोकाद्विनिद्रताम् । प्रासूत च कलाजालमकरन्दझरी ततः ॥ १ ॥ समस्त विद्यावनितासमागमे निरस्तविद्या गुरुभक्तिरेव । विलोभनीयस्य वधूभिरन्ततः सुतस्य तस्य प्रबभूव दूती ॥ २ ॥ पराभूते जीवंधरशशभृता पर्वशशिनि कलाचातुर्गुण्याद्विलसदमृतं वाचमगमत् । मुखं कान्तिः प्राप्ता सकलजगदानन्दकरता तदीयाङ्गं प्रापत्पदनखमभूत्सोऽपि शशभृत् ॥ ३॥ इति निजविद्याललितलतामस्य हृदयालवालपल्लवितामवलोक्य, प्रीतेः परां काष्ठामधितिष्ठमानः प्रसन्नचित्तवृत्तिरयं सूरिः, एकदाविजने निजप्रान्तमावसन्तमन्तेवासिनमित्थमचीकथत् । " श्रुताम्बुधः पारगत शृणु त्वं प्रवीण कस्यापि चरित्रभावम् । अवाप्य यः श्रोत्रपथेन चित्तं दयानटीनर्तनसूत्रधारः ॥ ४ ॥ For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy