________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमो लम्बः ।
समुन्ज नृम्भे संभूतस्तदा दुन्दुभिनिस्वनः ।।
धुन्वन्निव धरामदींचालयन्दलयन्नभः ॥ ७५ ।। ततो नटटाटोपघटितभुजास्फोटचटुलरवनिष्टुरेण मदवारणकण्टरवघण्टाघोषभैरवेण कण्ठीरवरवकुण्ठनपटुपोषितहयहेषितभीषणखरतरखुरपुटबटनकुहिमजनितकठोरध्वनिनिर्भरेण पदातिततिपादाहतिप्रोद्भूतभूरिभरवभीकरण सन्ततपरिस्पन्दन्मदमन्दवेगस्यन्दनचक्र चीत्कारमेदुरेण धानुष्ककरकलितधनुष्टंकारकर्कशेन प्रतिध्वानितकुलाचलकन्दरकुलेन कोलाहलेन भरितं तस्य बलं भूपतिभवनमुपररोष।
दौवारिकस्य वचनादुपरोधकृत्य
माकर्ण्य कर्णपरुषं पुरुषाधिराजः । रोषेण चूषितशुचा स हि धीरधीरः
पञ्चाननासनतलादुदतिष्ठतायम् ॥ ७६ ।। तावत्प्रतिष्ठमानं प्राणकान्तमनुसृत्य कृतप्रयाणान्प्राणान्परिमार्गितुमिव भूमों निपतितां तां निर्भरगर्भभरतान्तामालोक्य पुनन्यवार्तष्ट नरवरिष्ठः ।
प्राबोधयञ्च पृथ्वीशः कथंचिल्लब्धचेतनाम् ।
देवी ज्ञानं हि दुःखाब्धितरणे तरणीयते ॥ ७७ ॥ शम्पानिभा संपदिदं शरीरं चलं प्रभुत्वं जलबुद्दाभम् । तारुण्यमारण्यसरित्सकाशं क्षयिष्णुनाशो हि न शोचनीयः।।८।।
संयुक्तयोर्वियोगो हि संध्याचन्द्रमसोरिव । रक्तयोरपि दंपत्योर्भविता नियतेर्वशात् ॥ ७९ ॥ वन्धुत्वं शत्रुभूयं च कल्पनाशिल्पिनिर्मितम् । अनादौ मति संसारे तवयं कस्य केन न ॥ ८ ॥
For Private And Personal Use Only