________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमो लम्यः ।
११५ मध्यगयोः परस्परसंमुखयोरिव दिवाकरयोः, प्रवीरयोरनयोः समर. क्रीडामातन्वतोः, कुपितवदनो मथनः, पद्माननस्य कार्मुकगुणं विभिद्य हर्षेण प्रगर्जन् , इमं व्याहारमुररीचकार ।
चापस्य जीवविच्छेदात्व धावसि भयाकुलः ।
ननु रे भवतोऽप्येवं जीवमेष हरिष्यति ॥ ८५ ॥ इति लपितमवेत्य पद्मवक्रः स्फुटतरमाह गिरं गभीरनादः । अयि मथन ममास्ति चन्द्रहासः परिहतशत्रुसतीमुखेन्दुहासः ॥८६॥ __इति कृपाणमुत्पाट्य करे विचलयन्, शताङ्गोत्सङ्गादुत्प्लुत्यामन्दतरलाघवाक्रान्तशात्रवानीकः पञ्चाननप्रत्यानीकपराक्रमः पद्माननः, कदनदुर्मदविलासितस्य मथनस्य शिरसि समुत्खातकरवालं निचखान ।
मथने भुवि पातिते रणाग्रे जलजास्ये निपपात पुष्पवृष्टिः । रिपुसैनिकनेत्रतोऽम्बुवृष्टिः कुपिताद्राजगणाञ्च बाणवृष्टिः ॥ ८७ ॥
तदानी कौरवबलकोलाहलमाकर्ण्य प्रवृद्धकोपौ कुटिलीकृतचापी तपननिकाशप्रतापौ लाटकाम्पिल्यकभूपो बुद्धिषेणपल्लवराजयोरभिमुखं तस्थिवांसो दिशावकाशनिबिडितसायकं हर्षितनिजनांयकं वैमानिकजनसीमातीताद्भुतहर्षदायकं भयानकं समीकमांकलय्य कल्पान्तदहनसकाशे तयोः शरनिकरहुताशे पतङ्गो बभूवतुः ।
महाराष्ट्रविदेहेशोः समरं समजृम्भत । दारुणं शरसंभिन्नवारणं जयकारणम् ॥ ८८ ॥ प्रदीप्रशरसङ्कटं प्रचुरदीर्णदृप्यद्भटं . निलिम्पजनलालितं निखिलशस्त्रलीलायितम् । प्रदर्शकनिदर्शनं प्रथितयुद्धविद्याविदा वितेनतुरिमौ तदा विविधसंगरं भीकरम् ।। ८९ ॥
For Private And Personal Use Only