SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११४ जीवधरचम्पुकाव्ये माद्यद्दन्तिघटापटुस्फुटनटबोटप्रहृष्यद्भटा टोपाच्छादितदिक्तटे रणतले खगोल्लसद्वारया । आहृत्य श्रियमाहवोद्यतरिपुक्षोणीभृतामुज्ज्वलां कीर्त्या कोमलया दिशो धवलयाम्युत्फुल्लकुन्दनिया ॥३३॥ किंच । आ जन्मतो न लिखितं भुवनाधिपत्यं यद्गालसीमनि परं तु वणिक्रियैव । तेनाधमेन वणिजस्तनयेन किंवा ___संधानमद्य नरपालमणीशिनां नः ॥ ३४ ॥ ध्वजिनीरुद्धपार्श्वस्य मथनस्य शरावलेः । विघसोऽजनि यः पूर्व कबलीक्रियतेऽधुना ॥ ३५ ॥ इति दर्पदुर्ललितवचनविलसितमाकर्ण्य कोपारुणीकृतभालो नयविशालो गम्भीरमिमां गिरमुज्जगार । पुलिन्दवृन्देन गवां कुले हृते बलेन साकं मथने पलायिते । पिधाय वेगेन कवाटमन्ततो धृतो वधूभिस्तनुकम्पमत्यजः ॥३६॥ एवंविधपराक्रममण्डितभुजदण्डमण्डितस्य न युक्तमेव कौरवेण संधानम् । किं धर्मदत्तेन हि षण्डवृत्त्या प्रचण्डवृत्या भवतापि किंवा । कुरुप्रवीरस्य कराग्रनुन्नं राज्यश्रियं चक्रमलं प्रदातुम् ॥ ३७ ॥ इति निगद्य जवान्निर्गत्य यथावृत्तं कुरुवीरं विज्ञापयति नयविशाले विशालतरसमीकसंनाहः कुरुकुमारः पद्मास्यं वरू थिनीनामाधिपत्ये विधाय यथायोग्यं गरुडवेगगोविन्दलोकपालपल्लवमहीपालप्रभृतीनाप्टच्छच रणाङ्गणावतरणाय सेनामादिदेश । काष्ठाङ्गारोऽपि सेनायाः पति मथनमादिशत् । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy