________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नवमो लम्बः।
इति वाचमसौ श्रुत्वा क्षणं तूष्णीमवस्थितः । द्विजातिवृद्धो मधुरमुवाच वदतां वरः ॥ २४ ॥ आये पयोजनयने, बाह्योद्यानविराजमानस्य कामदेवस्य पूजया प्रसन्नस्य कृपाकटाक्षः साक्षात्कृतो जीवंधरस्तव मनोरथलतामङ्कुरयिष्यति ।
विचिकित्सा विशालाक्षि नात्र कार्या निरङ्कुशा । कामकोष्ठस्य गमने त्वरैव तनुमध्यमे ॥ २५ ॥ तदनु हृदि विदित्वा कामितार्थ करस्थं
कमलविमलनेत्री संगता सा सखीभिः । सपदि मधुराशिञ्जन्म मञ्जीरपादा
मणिमयमधिरूढा याप्ययानं प्रतस्थे ॥ २६ ॥ ततश्च चकितसारङ्गविलोचना सा सुरमञ्जरी द्विनवृद्धं पुरोधाय कामालयमेत्य वामालकाभिरालीभिः समानीतसुरभिकुसुमादिभिस्तत्पूनां निर्वतयामास । रहसि कुसुमबाणं प्रार्थयामास तन्वी
मुकुलितकरपद्मा त्वं तथा कल्पयेति । मलयजरसलिप्ते मौक्तिकस्फारहारे
___ मदुरसि कुचभागे जीवकोऽसौ यथा स्यात् ॥२७॥ इति प्रार्थनामनुसरन्तीं क्वचिदन्तर्हितस्य बुद्धिषेणस्य ‘लब्धो वरः' इति वाणीमेणाक्षी कामदेवस्य कृपासारविलसितवचोधारां मत्वा, प्रमोदमेदुरमानसा, किंचित्कंधरां विनिवृत्य, पुरतो विराजमानम्, बहिरागतमिव साक्षात्कामदेवम्, जङ्गममिव कनकगिरिशृङ्गम्, सञ्चरन्तमिव नयनानन्दम्, साङ्गमिव शृङ्गाररसम्, साकारमिवाद्भुतरसप्रकारम्, सरूपधेयमिव निजभागधेयम्, लक्ष्मीविश्रा
For Private And Personal Use Only