SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवमो लम्बः । मालम्व्य कृच्छादुत्थाय प्रस्खलन् , तदीयविकचविचकिलकुसुमकुलसुराभिलहंसतूलशयनाधिरोहाय प्रयतमानः, तत्र हस्तावलम्बनवशेन नन्निवारणपरं चेटीनिकरं निवारयन्त्या सुरमञ्जर्या सहर्षमनुमतः, स द्विजवृद्धः क्रमेण मुष्वाप । वृहं तं तरुणीविलासरसिकं वीक्ष्येव भासां पति वृद्धः सन्चरमक्षमाधरगुहाकेलीगृहं प्राविशत् । वारुण्याः किलसंगमाय रसिकः स्फाराङ्गरागाञ्चितः कंदपोऽपि शरासनं करतले चक्रे टपत्कैः सह ॥१६॥ तदनु सकलजनतादृष्टिरोधकरे तिमिरनिकरे विजृम्भिते, तमालन्ति सकलतरवः, पिकजालन्ति विहंगमाः, नीलाचलन्ति भूमिधराः, भल्लूकन्ति निखिलवनमृगाः, कालिन्दीमनुकुर्वन्ति निम्नगाः, इति लोकस्य विभ्रमो बभूव । ततः पूर्वाचलप्रान्ते बभी कुमुदवान्धवः । वान्तसिन्धुरसंक्षोभमृगेन्द्रः कुन्दंनिर्मलः ॥ १७ ॥ ततो वृद्धः सोऽयं भुवनमहितां गानपदवी मतानीत्सानन्दं मधुररसनिष्यन्दभरिताम् । खगेशः (?) कन्यायाः परिणयकलाकालकलितां निशम्यायं जीवंधर इति शशङ्के सुनयना ॥ १८ ॥ तदनु सा सुरमञ्जरी सहर्षमुत्थाय, अकूजत्काञ्चीकलापमगुञ्जन्मीरमचलितकरवलयं सखीजनान्पुरोधाय मन्दं मन्दं तदीयशयनोपकण्ठमासाद्य, प्रवयसः पुरतो वयस्याजनं विधाय, खयमपि पश्चाद्भागमलकुर्वन्ती, मालतीलतानां पृष्ठतो रत्नवल्लीव विराजमाना, चकोरनयना भुवनमोहनं गानं शुश्राव । For Private And Personal Use Only
SR No.020139
Book TitleChampu Jivandhar
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kuppuswami Shastri
PublisherShri Krishna Vilasa Press Tanjore
Publication Year1905
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy