________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७६ ॥ अथ नमिनाथजिनस्तुतिः ॥ ॥ स्फुरद्विद्युत्कान्ते प्रविकिर वितन्वन्ति सततं ममायासं चारो दितमद नमेऽघानि लपितः । नमद्भव्यश्रेणीभवभयभिदां हृद्यवचसा-ममायासंचारोदितमदनमेघानिल पितः ॥१॥ नखांशुश्रेणीभिः कपिशितनमन्नाकिमुकुटः, सदा नोदी नानामयमलमदारेरित तमः । प्रचक्रे विश्वं यः स जयति जिनाघीशनिवहः, सदा नो दीनानामयमलमदारोरततमः॥२॥ जलव्यालव्याघ्रज्वलनगजरुग्वन्धनयुधो, गुरुर्खाहोऽपातापदधनगरीयानसुमतः । कृतान्तस्त्रासीष्ट स्फुटविकटहेतुप्रमितिभा-गुरुर्वाहो पाता पदघनगरीयानसुमतः ॥३॥ विपक्षव्यूहं वो दलयतु गदाक्षावलिधरासमा नालीकालीविशदचलना नालिकवरम् । समध्यासीनाम्भोभृतघननिमाम्भोधितनया - समानाली कालीविशदचलनानालिकवरम् ॥ ४ ॥
॥ अथ नेमिनाथजिनस्तुति ॥ ॥ चिक्षेपोर्जितराजकं रणमुखे यो लक्षसंख्यं क्षणाशदक्षामं जन भासमानमहसंराजीमतीतापदम् ।
For Private And Personal Use Only