________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७०
दमाला भवन्तम् ॥ शुभ्रा श्रीशान्तिदेवी जगत्ति जनयतात् कुण्डिका भाति यस्याः सन्नालीका सदाप्ता परिकरमुदिता सा दमाला भवन्तम् ॥ ४ ॥
अथ विमलनिनस्तुतिः ॥ अपापदमलं धनं शमितमानमानो हितं नतामरसनासुरं विमलमालयामोदितम् । अपापदमलंघनं शमितमानमामोहितं न तामरसभासुरं विमलमालयामोदितम् ॥ १ ॥ सदानवसुराजिता असमरा जिना भीरदाः क्रियासु रुचितासुं ते सकलभा रतीरा यताः । सदानवसुराजिता अमराजिनाभीरदा क्रियासु रुचितासु ते सकलभारतीरा यताः ॥ २ ॥ सदा यतिगुरोरहो नमत मानबैराञ्चितं मतं वरदमेनसा रहितमायताभावतः । सदायति गुरोरहा न मतमानबरं चितं मतं वरदमेन सारहितमायता भावतः ॥ ३ ॥ प्रभाजि तनुतामलं परमचापला रोहिणी सुधावसुरभीमना मयि सभाक्षमालेहितम् । प्रभाजितनुतामलं परमचापलारोहिणी सुधावसुरभीमनामयिसना क्षमाले हितम् ॥ ४ ॥
For Private And Personal Use Only