________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य मै। अणिअद-मग्गेण चलन्तम विलम्बेणज्जेव गम्म-लाहो होइ (१)। प्रेम । इदमनैकान्तिकम्। तथा हि वन्यासु तरणिसरणिर्जवेन गम्यं नयत्यनियताऽपि । न सहजकुटिलेषु पुनर्नदीप्रवाहेष्वतिनियताऽपि ॥ तदलमनया वार्त्तया श्टणमस्तावत् किमयं प्रस्ताति। सूत्र। अलमतिविस्तरेण भो भो अद्याहं भगवतः कमलयोनेश्चरणेपकण्ठाद् दैनन्दिन-वन्दनादिकं निर्बाह्य निवर्तमानो मानोन्नतेन दैवात्तत्रैवोपसीदता नारदेनाऽऽदरेण समादिटोऽस्मि । यथा हो गन्धर्बराज राजमानोऽतिचिराय मम मनोरथो वरीवर्ति। भवद्भिनरीनृत्यमाना भगवतः श्रीवृन्दावनविहारिणः काऽपि केलिकौमुदीनयनविषयीकर्तव्येति। तद्यथा सम्पद्यतेऽद्य ते तथा कौशलेन भवितव्यम्। तदहं तत्र यतिथ्ये। इति पुरतोऽवलोक्य। भो भो इत इतः। प्रविश्य । पारिपार्श्विकः । किमाज्ञापयसि भाव। सूत्र। मारिष अद्याहमुपरोधितोऽस्मि तत्र भवता भगवता नारदेन। पारि । कथमिव । सूत्र। भगवतः कमलयानेः । इत्यादि पठति । पारि। भाव कथमयमात्मयोनेर्भगवत आत्मजः सनक
(१) अनियतमार्गेण चलतो विलम्बेनैव गम्य-लाभो भवति ।
For Private And Personal Use Only