________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयाले भक्तिवैराग्ययोरभिनयः । येऽमो श्रीतप्रसिद्धानहह भगवतोऽचिन्त्यशक्त्याद्यशेषान् प्रत्याख्यान्तो विशेषानिह जहति रति हन्त तेभ्यो नमो वः ।। इति तान पास्य पुनरन्यतो गत्वा परितः परिलोक्य | अहो अमो यदन्योऽन्यं विवदन्ते तदस्य तत्त्वमवगन्तव्यम् । इति निभाल्य । अहो कपिल-कणाद-पातञ्जल-जैमिनि-मतकोविदा एते अन्यो ऽन्यं विवदन्ते भगवत्तत्त्वं न केऽपि जानन्ति तदितो गन्तव्यम्। इति पुनः कतिचित् पदानि गत्वा । अहो दक्षिणस्यां दिशि पतितोऽस्मि । यदमी आईत-सौगत-कापालिकाः प्रचण्डा हि पाषण्डाः। एते पाशुपता अपि हतायुषो मां हनिष्यन्ति तदितः पलायनमेव शरणम्। इत्यपसृत्य कि यदूरं गत्वा किञ्चिदवलोक्य । अहो अयं साधुभविष्यति यतः खलु नदीतट-निकट-प्रकटशिलापट्ट-घटित-सुखोपवेशः क्लेशातीतो गुणातीतं किमपि ध्यायनिव समयं गमयति । तदमुं निरूपयामि। इति तथा कृत्वा । अहो।
जिहाग्रेण ललाटचन्द्रजसुधास्यन्दाध्वरोधे महहाच्यं व्यञ्जयतो निमीत्य नयने बताऽऽसनं ध्यायतः।
अस्योपात्तनदीतटस्य किमयं भङ्गः समाधेरभूत् इति सविस्मयं विचिन्त्य । अहो ज्ञातम्।
पानीयाहरणप्रवृत्ततरुणीशङ्खवनाकर्णनैः ॥ तदिदमदरभरणाय केवलं नाट्यमेतस्य । पुनरन्यतो गत्वा परितोऽवलोक्य। अहो अयं निष्परिग्रह इव लक्ष्यते। तैर्थिक एव भविष्यति । तदस्य दैवादागतेन पथिकेन सह सङ्कथयतः
For Private And Personal Use Only