SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमाङ्के श्रीचैतन्यखरू पाद्यभिनयः । श्व मे परश्वा मम तत्परेऽह्नि ममापरेधुर्मम चापरेहि। ममेति भिक्षादिननिर्णयेना द्वैतादयः कौतुकिनो बभूवुः ।। तदधुनात्र मम प्रवेशोऽयोग्यस्तदहमासन्नस्य होरामहोत्सवस्य सामग्रीसमवधानाय गच्छामि। इति निष्कान्तः । ततः प्रविशति श्रीकृष्ण चैतन्यः परितोऽदैतादयश्च । श्रीचै। स्वरूप यद्यपि जगन्नायो द्वारकालीलामनकरोति तथाऽपि गुण्डिचाव्याजेन वृन्दावनस्मारकेवेतेषूपवनेषु विहां प्रत्यब्दमेव नीलाचलं परित्यज्य सुन्दराचलमागच्छति । कथं देवों श्रियं परित्यजति। स्वरूपः । स्वामिन् वृन्दावनस्मारकेष्विति यदुक्तं स्वयमेव तदेव सिद्धान्तो नहि वृन्दावने श्रिया सह विहारोऽपि तु गोपाङ्गनाभिरेव । श्रोचे। तथाऽप्येषा कोपिनी भवति। स्वरू। प्रणयिनीनां प्रकृतिरवेयं यत्वायोग्यतां नेक्षते । नेपथ्ये महावादित्रनिर्धाघः। सर्वे । व्याकर्ण्य । अहो निमेषमात्रमिव दिनचतुष्टयं जातम्। यदयं हारापञ्चमीमहोत्सवः प्रत्यावर्त्तते। श्रीचै। यथाप्रस्तावमेवायं भगवत्याः श्रीदेव्याः कोपप्रयाणमहोत्सवः । तदयमालोकनीयो भवति । सर्वे । एवमेव । इति चालोकनसमुचितं स्थलं उपसन्ति । For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy