________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमाने राजमहिष्योरभिनयः ।
संस्कृतेन । महः पूरः सद्यो विषयरस संशोषण विधा प्रचण्ड मार्त्तण्डव्यतिकर इवास्य प्रसृमरः । हा माधुर्यं भगवदनुरागाम्टतकिरो महावर्षाः कोऽयं कनकनिधिरक्ष्णोः पथि गतः ॥ अपि च । निर्मञ्छयानि विधुभिर्मख विम्ब मस्य नीराजयानि च रुचं कनकप्रदीपैः । सम्पूजयानि पदपद्ममसु प्रसृनैः प्रत्याददानि करुणामपि लक्षदेहैः ॥
इति प्रयमति ।
राजा । यथार्थोऽयमनुभवो भवत्याः । तदाकलय श्रीजग
नाथेोऽपि स्नानालयमध्यारूढः ।
देवी च्यालोक्य प्रणमति ।
नेपथ्ये
पुनः कालध्वनिः ।
राजा । देवि पश्य पश्य श्रीजगन्नाथस्नानम् ।
देवी । उभयतो दृष्टिमाधाय । श्रज्जउत्त महज्जेव कोटूहलं (२) ।
राजा । किं तत् ।
देवी। संस्कतेन ।
श्रन्योऽन्याभिमुखस्थितैा विनिमिषावन्योन्यसन्दर्शने स्नानाम्भोनयनाम्भसोः सुततनू दुर्वारया धारया ।
।
१ चार्यपुत्र महदेव कौतूहलम् ।
For Private And Personal Use Only
२४५.