________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चैतन्यचन्द्रोदयस्य राजा। भट्टाचार्य श्रुतं मया कोऽपि महाप्रभावः परमकारुणिको यतीन्द्रः सम्प्रति गौडादागतोऽस्ति । भट्टा । अथ किम्। राजा । कथं मया तस्य चरणवन्दनं क्रियते। भट्टा। इदंत्वतिदुर्घटम्। विरलप्रचाराणां तेषां निष्किच्चनेनैव दर्शनं लभ्यते। तत्रापि दिनकतिपयान्यद्य दक्षिणस्या दिशि चलिताः सन्ति। • राजा। किमिति जगन्नाथमहाप्रभोः समीपं विहाय चलितवन्तः ।
भट्टा । “तीर्थीकुर्वन्ति तीर्थानि स्वान्तस्थेन गदामृता” इति सामान्यानामेव महतामयं निसर्गः। अयन्तु भगवानेव स्वयम् ।
राजा। सविस्मयम्। भट्टाचार्य भवन्तश्चेदिदं ब्रुवन्ति तत्मत्यमेवैतत् । तदा किमिति यत्नपरस्मरं भवताऽत्र नारक्षि। भट्टा। महाराज।
ब्रह्मादयो लोकपाला यवभङ्गतरङ्गिणः ।
विना स्वकरुणदेवों पारतन्त्र्यं न सोऽईति ॥ तथाऽपि। कतिन विहितं स्तोत्रं काकुः कतोह न कल्पिता
कति न रचितं प्राणत्यागादिकं भयदर्शनम् । कति न रुदितं धृत्वा पादौ तथाऽपि स जम्मिवान्
प्रकृतिमहता तुल्चौ स्यातामनुग्रनिग्रहो॥ राजा। सेोत्कण्ठम् पुनरत्राऽऽगमिष्यन्ति । भट्टा। अथ किम् । सङ्गिनस्वत्र वर्तन्ते ।
For Private And Personal Use Only