________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घष्ठाझे भगवन्मुकुन्दाद्यभिनयः । १३५ पातालात् किमु सत्यलोकमयितुं शेषः समभ्युत्थितः । किंवा नागफणामणीन्द्रमहसां राशिहाणे दिवं दिव्यं देवकुलं प्रभारिदमिदं भो देव विद्योतते॥ रत्ना। देवि सर्वमधिगतं कथमत्र विमनायते भवती मत् सौभाग्ये सौभाग्यवती भवती पश्य पश्य ।
यदर्थं बदोऽहं शिव शिव यदर्थच्च मथितस्तदीयस्तातोऽसाविति न गणितं येन विभुना। अहो कीदृग भाग्यं मम हिस हरिस्ताच्च दयिता
परित्यज्यैवास्मत्तटवटकुटुम्बी समभवत् ॥ तदहि निकटं गत्वैव पश्याव। गं। जहरुइदं अज्ज उत्तम (१)। इत्ति निष्कान्तौ ।
प्रवेशकः। ततः प्रविशति परमाविष्टो भगवान परितश्च नित्यानन्दादयः। भगवान्। अन्धलिहोऽपि जगतां हृदयं प्रविष्टः
स्थूलोऽपि लोचनयुगान्तरमभ्युपेतः। सिद्धः शिलाभिरपि यो रसवर्षशाली
प्रासाद एष पुरतः स्फरतीश्वरस्य ॥ इति सेोत्कण्ठं परिकामति।।
सा। अहो मुहूर्त्तमात्रगम्योऽयं पन्था दीर्घातिदीर्घ इव जायते भगवतः किमत्र चिन्तयाम। भगवतो नीलाचलचन्द्रस्य
१ यथारचितमार्यपत्रस्य ।
For Private And Personal Use Only