SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४ चैतन्यचन्द्रोदयस्य काच्चीकलापकुरुविन्दमणीन्द्ररूपी कालक्रमादिनपतिः पतयानुरासीत् ॥ तदिदानों विगतवर्मपरिश्रमः सन्ध्यामुपास्य दर्शनीयतमो द्रष्टव्यः । स खल्ल भगवान विश्वम्भरः । इति तथा कर्तुमिच्छति । नेपथ्ये । हन्त भो निजपुरं गत्वा समागतप्रायोऽहमिति कृत्वा गतो. द्वैतः कथमद्यापि नाऽऽयातः। अवै। श्रुतिमभिनीय । अहो मदिलम्बमालोक्य स्वयमेव देवो मामाक्षिपति तदहं सत्वरमेव गच्छामि। इति परिक्रामति । प्रविश्यापटीक्षेपेण। श्रीवासः। भो अद्वैतदेव आज्ञापयति भगवान् । अहमितः श्रीवासगृहं गच्छनस्मि भवताऽपि तत्रैव गन्तव्यमिति। अहै। यथाऽऽज्ञापयति देवः । इति तेन सह परिक्रामन पुरोऽवलोक्य । इदमिदं श्रीवासपुरं यावत् प्रविशामि। इति प्रवेश नाटयित्वा प्राची दिशमवलोक्य | अहो रम्यम् । আল্লাহি জানান। प्रेमामृतस्यन्दसुषीमपादः। उल्लासयन् कौमुदमुज्जिहीते चन्द्रश्च विश्वम्भर चन्द्रमाश्च ।। ततः प्रविशति । श्रीवासादिभिः समुपगम्यमानो भगवान् विश्वम्भरः । प्रत्युत्थाय । स्वागतं भोः स्वागतम्। अद्वै । श्रीमुखचन्द्रदर्शनेन। For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy