SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीयोगविशिका प्रकरणम् ॥ गोऽबन्ध्यमेतदेतस्मिन् ॥ सत्यन्वयसम्पत्त्या, सुन्दरमिति तत्परं यावत् ॥११॥ अवन्ध्यं न कदाचिनिष्फलं एतत् धर्मस्थानमहिंसादि, एतस्मिन् विनियोगे सति, अन्वयसम्पत्त्या अविच्छेदभावेन, तत् विनियोगसाध्यं धर्मस्थानं, सुन्दरम् । इतिः भिन्नक्रमः समाप्त्यर्थश्च, यावत्परमित्येवं योगः, यावत् परं प्रकृष्टं धर्मस्थानं, समाप्यत इत्यर्थः । इदमत्र हृदयम्-धर्मस्तावद्रागादिमलविगमेन पुष्टिशुद्धिमच्चित्तमेव । पुष्टिश्च पुण्योपचयः, शुद्धिश्च घातिकर्मणां पापानां क्षयेण या काचिनिर्मलता, तदुभयं च प्रणिधानादिलक्षणेन भावेनानुबन्धवद्भवति, तदनुबन्धाच्च शुद्धिप्रकर्षः सम्भवति, निरनुबन्धं च तदशुद्धिफलमेवेति न तद्धर्मलक्षणम् , ततो युक्तमुक्तं "प्रणिधानादिभावेन परिशुद्धः सर्वोपि धर्मव्यापारः सानुबन्धत्वाद् योगः" इति । यद्यप्येवं निश्चयतः परिशुद्धः सर्वोऽपि धर्मव्यापारो योगस्तथापि विशेषेण तान्त्रिकसङ्केतव्यवहारकृतेनासाधारण्येन स्थानादिगत एव धर्मव्यापारो योगः, स्थानाद्यन्यतम एव योगपदप्रवृत्तेः सम्मतत्वादिति भावः ॥१॥ स्थानादिगतो धर्मव्यापारो विशेषेण योग इत्युक्तम् , तत्र के ते स्थानादयः, कतिभेदं च तत्र योगत्वं ? इत्याहठाणुन्नत्थालंबण-रहिओ तंतम्मि पंचहा एसो॥दुगमित्थ कम्मजोगो, तहा तियं नाणजोगो उ॥२॥ ठाणुन्नत्थेत्यादि । स्थीयतेऽनेनेति स्थानं-आसनविशेषरूपं कायोत्सर्गपर्यङ्कबन्धपद्मासनादि सकलशास्त्रप्रसिद्धम् , ऊर्णः-शब्दः स च क्रियादावुच्चार्यमाणसूत्रवर्णलक्षणः, अर्थः-शब्दाभिधेयव्यवसायः, आलम्बनंबाह्यप्रतिमादिविषयध्यानम् , एते चत्वारो भेदाः, रहितः इति रूपिद्रव्यालम्बनरहितो निर्विकल्पचिन्मात्रसमाधि सविवरणं॥ स्थानादीनां पंचानां व्यापाराणां योगत्वं तद्विवेकश्च॥ ।।गा०२॥ ॥४२॥ ॥४२॥ For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy