________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीयोग
विंशिका
प्रकरणम् ॥ ॥४१॥
विनियोगभेदतः प्रायः ॥ धर्म राख्यातः, शुभाशयः पञ्चधाऽत्र विधौ॥६॥ इति । तत्र "हीनगुणद्वेषाभावपरोपकारवासनाविशिष्टोऽधिकृतधर्मस्थानस्य कर्तव्यतोपयोगः प्रणिधानम्," उक्तं च-प्रणिधानं तत्समये, स्थितिमत्तदधः कृपानुगं चैव ॥ निरवद्यवस्तुविषयं, परार्थनिष्पत्तिसारं च ॥७॥ तत्समये प्रतिपन्नधर्मस्थानमर्यादायां, स्थितिमत् अविचलितस्वभावम् , तदधः स्वप्रतिपन्नथर्मस्थानादधस्तनगुणस्थानवर्तिषु जीवेषु कृपानुगं करुणापरम्, न तु गुणहीनत्वात्तेषु द्वेषान्वितम् , शेषं सुगमम् ॥ " अधिकृत. धर्मस्थानोदेशेन तदुपायविषय इतिकर्तव्यताशुद्धः शीघ्रक्रियासमाप्तीच्छादिलक्षणोत्सुक्यविरहितः प्रयत्नातिशयः प्रवृत्तिः," आह च-" तत्रैव तु प्रवृत्तिः, शुभसारोपायसङ्गतात्यन्तम् ॥ अधिकृतयत्नातिशया. दौत्सुक्यविवर्जिता चैव ॥ ८॥” तत्रैव अधिकृतधर्मस्थान एव, शुभः-प्रकृष्टः सारो-नैपुण्यान्वितो य उपायस्तेन सङ्गता ॥ “ विघ्नजयो नाम विघ्नस्य जयोऽस्मादिति व्युत्पत्त्या धर्मान्तरायनिवर्तकः परिणामः।" स च जेतव्यविनत्रैविध्यात्रिविधः, तथा हि-यथा कस्यचित्कण्टकाकीर्णमार्गावतीर्णस्य कण्टकविघ्नो विशिष्टगमनविघातहेतुर्भवति, तदपनयनं तु पथि प्रस्थितस्य निराकुलगमनसम्पादकं, तथा मोक्षमार्गप्रवृत्तस्य कण्टकस्थानीयशीतोष्णादिपरीषहरुपद्रुतस्य न निराकुलप्रवृत्तिः, तत्तितिक्षाभावनया तदपाकरणे त्वनाकुलप्रवृत्तिसिद्धिरिति कण्टकविघ्नजयसमः प्रथमो हीनो विघ्नजयः१॥ तथा तस्यैव ज्वरेण भृशमभिभृतस्य निराकुलगमनेच्छोरपि तत्कमशक्नुवतः कण्टकविघ्नादधिको यथा ज्वरविघ्नस्तजयश्च विशिष्टगमनप्रवृत्तिहेतुस्तथेहापि ज्वरकल्पाः शारीरा एव
सविव
रणम् ॥ डायोगशुद्धिहेतूनांप्रणिधानाद्याशयानां स्वरूपम् ॥ ॥गा०२||
॥४१॥
For Private and Personal Use Only