SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie श्रीभाषा-15 सुष्टु सुन्दरा साधुक्रियेत्यादि । तथा क्वचिद्वयवहारे प्रक्रान्ते पृष्टोऽपृष्टोवा साधु वं वदेत् यदुतैतत्सर्वोत्कृष्ट स्वभारहस्यं स-1 वेन सुन्दरमित्यर्थः । परार्घ उत्तमाघ महापं क्रीतमिति भावः । अतुलं नास्तीदृशमन्यत्र क्वचिदित्यर्थः। असंस्कृतं वृत्तिकम् ॥ सुलभमीदृशमन्यत्रापीत्यर्थः । अवक्तव्यं अनिर्वचनीयगुणोपेतमित्यर्थः, अचिन्त्यमप्रीतिकरं वेत्यादि । एतादृश भाषणेऽधिकरणान्तरायादिदोषप्रसङ्गात् । तथा सुक्रीतमेतत् , सुविक्रीतमेतत् , अक्रयाहमैवैतत् , क्रयाहमेवैतत् , तथेदं ॥३५॥ समर्घ भविष्यति, महाघ वा भविष्यति इत्यादि न वदेत् अप्रीत्यधिकरणादिदोषप्रसङ्गात् । अभिधानप्रयोजने तूपस्थिते सम्यक्तात्पर्यशुद्ध्या विधिभेदं विधिविशेष ज्ञात्वा निरवद्यमवभाषेत तथा हि-लानप्रयोजने प्रयत्नपक्कमेतत् सहस्रपाकादीति वदेत् । प्रयत्नच्छिन्नमेतद्वनादीति साधुनिवेदनादौ वदेत् । तथा प्रयत्नसुन्दरा कन्येति दीक्षिता सती सम्यक्पालनीयेत्यर्थः । तथा सर्वमेव वा कृतादि कर्मनिमित्तमालपेत् , गाढप्रहारं च क्वचित्प्रयोजने गाढप्रहारं ब्रूयादेवं हि तदप्रीत्यादयो दोषाः परिहता भवन्तीति ।। व्यवहारं पृष्टश्च साधुरेवं भाषेत यदुत नाहं भाण्डमूल्यविशेष जानामि न चात्र क्रयविक्रयाहं वस्तु ददामि कस्यचित्कि वा विरतानामस्माकमीशेन व्यापारेणेति ॥ ९४ ॥ किश्च । अन्भुच्चयं ण भासिज्जा, आणत्ति अजयाण य । असाहुलोगं साहुत्ति सदोसासंसणं तहा ॥१५॥ ना केनचित्कस्यचित्सर्वमेतत् त्वया वक्तव्यमिति सन्दिष्टे सर्वमेतद्वक्ष्यामीति सन्देशं प्रयच्छन् सर्वमेतदिति वाऽ भ्युच्चयं न भाषेत न वदेत् , सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वेनासम्भवाभिधाने द्वितीयव्रतवि- CERITAKA दशवैकालिकसप्तमाध्ययनसद्वाक्यशुद्धिगदितभाषाभाषणविवेक सोपपत्तिकः।। का SHARE J॥३५॥ For Private and Personal Use Only
SR No.020125
Book TitleBhasharahasya Prakaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1941
Total Pages126
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy