________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चारित्रस्य मोक्षमार्गस्योपदेश इति) न चेदं दातृत्वं गौणम्, दातृत्वान्तरस्य तथात्वे विनिगमकाभावात् प्रार्थितोपायप्राप्तावपि तदकरणे च प्रार्थना परमार्थतो मृषैव ॥ तदुक्तम्॥ “लद्धिल्लियं च बोहिं, अकरिंतोऽणागयं च पत्थेंतो । अण्णंदाईं बोहिं, लब्भिसि कयरेण मुल्लेण ॥ ११०० ॥ त्ति” (लब्धां च बोधिमकुर्वन्ननागतां च प्रार्थयन् । अन्यामिदानीं बोधिं लप्स्यसे कतरेण मूल्येन ) एवं स्वधियाऽभ्यूह्यम् ३ ॥ ७४ ॥ उक्ता याचनी ३ ॥ अथ पृच्छनीमाह । [ ॥ ७५ ॥ जिन्नासियत्थकहणं, परूविया पुच्छणी जिणवरेहिं ४। पन्नवणी पन्नत्ता, विणीयविणयम्मि विहिवाओ५ ।
जिज्ञासितस्य ज्ञातुमिष्टस्यार्थस्य कथनं तद्विदः पार्श्वे, जिनवरैः पृच्छनी प्रज्ञप्ता । न च निग्रहार्थं विकल्पोक्तायाम् “एगे भवं दुवे भवं" इत्यादिसोमिलादिभाषायामव्याप्तिः, छलवाग्भूतायास्तस्या अलक्ष्यत्वात् । ' कुतः आगतः' 'क्व गमिष्यसि' 'कइविहा णं भंते जीवा पण्णत्ता' इत्यादिभाषाणामेव लक्ष्यत्वात् ४ ॥ उक्ता पृच्छनी, ४॥ अथ प्रज्ञापनीमाह । विनीतः शिक्षितो विनयो येन एतादृशे शिष्ये, यः विधिवादो विध्युपदेशः, सा प्रज्ञापनी प्रज्ञप्ता कर्त्तव्यत्वप्रतिपादकः प्रत्ययस्तद्घटितं वा, यथा च विधेः कृतिसाध्यत्वादिकमेवार्थो न त्वपूर्वादिस्तथा मत्कृतवादरहस्यादाववसेयम् । इह तु न प्रतन्यते ग्रन्थान्तरप्रसङ्गात् । यथा प्राणिवधानिवृत्ता जीवा दीर्घायुषो भवन्तीति । इदमुपलक्षणं हिंसादिप्रवृत्तो जीवो दुःखितो भवतीत्यादिनिषेधोपदेशस्यापि । उक्तं च ।। " पाणिवहाउ णियत्ता, हवंति दीहाउआ अरोगा य । एमाई पन्नत्ता, पण्णवणी वीयराएहिं ॥ १ ॥ " ति । ( प्राणिवधानिवृत्ता भवन्ति दीर्घायुषो ऽरोगाश्च । एवमादि प्रज्ञप्ता प्रज्ञापनी वीतरागैः) एवं च 'भयाप्रयोज्यप्रवृत्तिजनकेच्छाप्रयोजक भाषात्वम्'एतल
For Private and Personal Use Only
असत्या
मृषाभेद
विचारे ४
पृच्छनी
५ प्रज्ञापनी भाषायोः
सनिदर्शनं सोपपत्तिकं
लक्षण
स्वरूपादि
वर्णनम् ॥