________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्वेन नदीगतनीरादिकं बोधयत्वित्याकारैव विवक्षा' इत्यपरे, तया विवक्षया, या भाषा प्रयुज्यते सा पीयते नदी, दह्यते गिरिरिति तत्र व्यवहारसत्या, अत्र पीयते नदीत्यस्य नदीगतं नीरं पीयत इति दह्यते गिरिरित्यस्य च गिरिगतं तृणादिकं दह्यत इत्यर्थः । इदमुपलक्षणम्, गलति भाजनम्, अनुदरा कन्या, अलोमा एडकेत्यादीनां, भाजनगतं जलं गलति, सम्भोगजबीजप्रभवोदराभाववती कन्या, लवनयोग्यलोमाभाववत्ये डकेत्याद्यर्थानामुदाहरणानाम्, न च गिरितृणादीनामभेदाभिधानान्मृषावादित्वप्रसङ्गः, व्यावहारिका भेदाश्रयणेनादोषत्वात्, लोकविवक्षाग्रहणाच्च न रूपसत्याद्यतिव्याप्तिः, एवमामलक्यादौ एकेन्द्रियत्वेन नपुंसकत्वेऽपि स्त्र्याद्यभेदविवक्षया स्त्रीत्वादिप्रतिपादनमपि व्यवहारसत्यमेवेति द्रष्टव्यमिति दिग् ७ ।। ३१ ।। उक्ता व्यवहारसत्या ७ ॥ अथ भावसत्यामाह । सा होइ भावसच्चा, जा सदभिप्पायपुत्र्वमेवुत्ता। जह परमत्थो कुंभो, सिया बलाया य एसत्ति ८ ॥ ३२ ॥ सा भवति भावसत्या या सदभिप्रायपूर्वमेवोक्ता, अभिप्रायस्य सच्वं च पारमार्थिकभावविषयत्वेन X शास्त्रीयव्यवहारनियन्त्रितत्वेन च, अत एवोदाहरणद्वैविध्यमाह, यथा परमार्थः कुम्भः सिता बलाका च एषेति । अत्र प्रथममुदाहरणं पारमार्थिककुम्भबोधनाभिप्रायेण कुम्भपदप्रयोगात्सत्यत्वोपदर्शनार्थम्, द्वितीयं च सत्यपि बलाकायां पञ्चवर्णसम्भवे शुक्लवर्णावधारणस्योत्कटशुक्लपरतया तदुपदर्शनार्थम् । न चैवं द्वितीयं व्यवहारसत्य एवान्तर्भाव्यतामिति वाच्यम्, तस्य लोकविवक्षाघटितत्वात्, अथ द्वितीयमेवोदाहरणमन्यत्र प्रकृते प्रदर्शितमिति प्रथमोदाहरणप्रदर्शनं स्वच्छन्द मतिविकल्पितमिति चेत्, न, “भावसचं णाम जमहिप्पायतो, जहा घडमाणेहि
For Private and Personal Use Only
सत्याभाषा
★ भेदविचारे
७ व्यवहार सत्या ८
भावसत्य
योः सनिद
र्शनं लक्षण
स्वरूपादि प्ररूपणम् ॥