________________
Shri Mahavir Jain Aradhana Kendra
श्रीकूपदृष्टान्तविशदीकरण प्रकरणम् ॥
॥ ५३ ॥
www.kobatirth.org
॥ न्यायविशारद - न्यायाचार्य - महोपाध्यायश्रीयशोविजयगणिप्रणीतं स्वोपज्ञतत्त्वविवेकाख्यविवरणविभूषितं ॥ ॥ श्रीकूपदृष्टान्तविशदीकरणप्रकरणम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
ऐन्द्रश्रीर्यत्पदाब्जे विलुठति सततं राजहंसीव यस्य, ध्यानं मुक्तेर्निदानं प्रभवति च यतः सर्वविद्याविनोदः ॥ श्रीमन्तं वर्धमानं त्रिभुवनभवना भोगसौभाग्यलीला - विस्कूर्जत्केवलश्री परिचयरसिकं तं जिनेन्द्रं भजामः॥१॥ सिद्धान्त सुधास्वादी, परिचित चिन्तामणिर्नयोल्लासी ॥ तत्त्वविवेकं कुरुते न्यायाचार्यों यशोविजयः ॥ २ ॥ तत्रेयमिष्टदेवतानमस्कारपूर्वकं प्रतिज्ञागर्भा प्रथमगाथामाहनमिऊण महावीरं, तियसिंदणमंसियं महाभागं । विसईकरेमि सम्मं, दव्वत्थए कूवदितं ॥१॥
व्याख्या - नत्वा महावीरं त्रिदशेन्द्रैर्नमस्कृतं महाभागं महानुभावं, महती आभा केवलज्ञानशोभा तां गच्छति यः स तथा तमिति वा । विशदीकरोमि निश्चितप्रामाण्यकज्ञानविषयतया प्रदर्शयामि । सम्यक् असम्भावनाविपरीत भावनानिरासेन, द्रव्यस्तवे स्वपरोपकारजनकत्वान्निर्दोषतया साध्ये इति शेषः । कूपदृष्टान्तं अवदृष्टान्तं, धूमवत्त्वाद्वह्निमत्तया साध्ये पर्वते महानसदृष्टान्त इतिवद् अयं प्रयोगः ॥ अत्र च भगवतश्चत्वारो मूलातिशयाः प्रतिपादिताः । तथा हि महावीरमित्यनेन “विदारयति यत्कर्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥ १ ॥ " इति निरुक्तात्सकलापायमूलभूतकर्मविदारणक्षमतपोवीर्यवि
For Private and Personal Use Only
तत्त्वविवेकविवरणसमेतम् ॥
॥ ५३ ॥